SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतः] चतुर्विशतिजिनस्तवः (२१९ ) नारीणां हृदि निवसस्यनिरुद्धगुरुप्रथोज्ज्वलशरीर ! । रामेय ! मकरकेतो ! सुविधे ! वृषभासनविदग्ध ! ॥ ९ ॥ जनतापापहृत्कुल्याञ्चितश्रीरमृतप्रदः । हरिस्तोमाभिनन्द्यो वः शीतलोऽव्याद् धनागमः ॥ १० ॥ अवचूरिः अरीणाम्-भगवदाज्ञालोपकारित्वात् मिथ्यादृष्टीनां हृदि निवासं न वितनोषि । अस्खलितप्रौढकोर्ते ! शुक्लवर्णत्वात् श्वेतकाय !। रामाभगवन्माता तस्या अपत्यम् । ‘ड्याप्स्यूडः ' (सिद्ध७ ६।। ७०) इत्यनेन एयणि रामेय ! । मकरलाञ्छन !| पुण्यप्रकटन निपुण !! एतान्यामन्त्रणपदानि । पक्ष स्त्रीगो वित्ते निवससि । अनिरुद्धोऽनङ्गसुतः । 'अनिरुद्धः सुतस्तस्य' ( ततस्तस्य गुरुः पितृत्वात् । ततो निरुद्ध गुरुरिति प्रथा-कीर्तिर्यस्य स तथा । अथवा अनिरुद्धेन गुर्वी पृथा यस्येति तस्य सम्बोधनम् । उज्ज्वल:-शंगारो रसः स शरीरं यस्य स तथा मन्मथत्वात् । तस्य । श्रीनन्दनः । मकरध्वजः । वृषभासन-ईश्वरस्तेन विशेषेण दग्धः ॥ ९ ॥ प्रजापापहारकः । कुलीनैः पूजित !-स्तुत ! । अष्टमहाप्रातिहादिका श्रीर्यस्य स तथा । 'महानन्दोऽमृतं सिद्धिः' ( अभिः का. १, श्लो०७४) इतिवचनात् अमृतप्रदः-सिद्धिदः । इन्द्रसमूहस्य पूज्यः । धनः परतीथः छेत्तुमशक्यत्वात् । निबिडः आगमः-समयो यस्य स तथा । पक्षे लोकतापविनाशकः । कुल्यासु-नदीषु अञ्चिता समवया उदकरूपा श्रीर्यस्य । कुल्याभिः अञ्चिता-अङ्गीकारतः पूजिता श्रीर्यस्येति वा स तथा । नोरदायकः मण्डूकगणस्पृहणीयःवर्षाकालः ॥ १० ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy