________________
(२१८)
जैनस्तोत्रसन्दोहे
[श्रोजिनप्रम
पद्मप्रभः सौमनसं धर्म बिभ्रत् सदाशये । उमाविभूषितः पातु प्रद्युम्नः श्रीधराङ्गजः ॥ ६ ॥ विधुरविधिषणस्नेही पृथ्वीतनयः सुवर्णवर्णतनुः । भवतु सुपार्थो भयदप्रतीपर्यः श्रिये वक्रः ॥ ७ ॥ चन्द्रप्रभ ! श्वेतरुचे ! तावकी मूर्तिरस्यति । तापं प्रजाया विश्वस्यास्ततमादधती *शशम् ॥ ८ ॥
अवचूरिः सुमनसां अयं सौमनसः शुद्ध इति यावत् तं धर्म सदाशयेचित्ते धरन् । यशोऽलङ्कतः । प्रकृष्टं द्युम्नं-बलं यस्य स तथा । श्रीधरः-प्रभोः पिता । पक्षे पौष्प चापं धरन् । सदा-निरन्तरम्शये-करे हस्ते । उमाविभुना-ईश्वरेण उषितः-दग्धः । 'उषू दाहे' इत्यस्मात् क्ते। 'ऊष रुजायाम्' इत्यस्मात् क्ते अषितः । कन्दर्पः । विष्णुतनयः श्रीनन्दनस्वात् ॥ ६ ॥
मन्दषु-विशिष्टमतिषु च स्नेही तत्कृपाकारित्वात् भगवतः । पृथ्वी भगवतो माता । भयदाना रोगादीनां प्रतीपा-प्रतिकूला चर्या विहारो यस्य स तथा । तस्मिन् विहरति तेषामभावात् । पक्षे चन्द्रसूर्यबृहस्पतीनां मित्रम् । ज्योतिःशास्त्रप्रसिद्धत्वात् । मङ्गलः । कुडकुमवर्णः । भयकारिणी वक्रा चर्या यस्य स तथा । वक्रगामित्वाद वक्रः ॥ ७ ॥
सितकान्ते ! निराकृताज्ञाना । तन्वती शम् ।-सौख्यम् । पक्षे चन्द्रः ध्वस्तान्धकारा । शशं-लाञ्छनं धरन्ती ॥ ८ ॥
* आदधती शशम् । पक्षे आदधती हे ईश ! शम् ।