________________
सूरिविरचितः ]
चतुर्विंशतिजिनस्तवः
श्रीमान् कैरवबन्धुरविलोचनो गारुडच्छविवपूर्वः । शम्भवजिनोऽस्त्वहीनस्थितिभाक् तार्क्ष्यध्वजः प्रीत्यै ॥ ३ ॥
(२१७ )
मुदेऽभिनन्दनः स्ताद् वः सुभद्राभोगभाजनम् । सद्धर्मसंयुगरतो भवजैत्रः कपध्वजः || ४ || हर्षितको कविनिवहस्तुत्योदयजनयितः कृतान्तस्य । श्रीमते ! जीयाश्चिरमिन ! त्वमुच्चैरुषाहन्तः ! ॥ ५ ॥
अवचूरिः ।
कैरवबन्धुरे विलोचने - नयने यस्य स तथा सुवर्णच्छविशरीरः । समां स्थितिः आचारं चैत्यतस्- प्रदक्षिणां सङ्घप्रणामादिकां भजते यः स तथा । तार्क्ष्य::- अश्वः ध्वजो - लाञ्छनं यस्य । पक्षे श्रियः पतिः। कैरवबन्धुरवी- चन्द्रसूर्यौ विलोचने यस्य स तथा । मस्कतकाम्तिकायः । अहीनां इन::- शेषनागराजः तत्र स्थिति-स्थानं भजते यः स तथा । तार्क्ष्यो - गरुडो ध्वज:- वाहनं यस्य ॥ ३ ॥
शोभनानां भद्राणां यः आभांगः - विस्तारः तस्य भाजनंआस्पदम् । सन्तम् - शोभनम् । देशविरतिरूपं धर्मं संयुनक्ति इति सद्धर्मसंयुक् जनेषु इति गम्यते । अविद्यमानं रतं कन्दर्पो यस्य स तथा । उष्ट्रमुखादित्वात् विद्यमानलोपः संसारजेता । वानरलाञ्छनः । पक्षे सुभद्रा - अर्जुनभार्या तस्या यो भोगः- सेचनं तस्य स्थानं तत्कास्त्विात् एवं उक्तिः । सद्धर्मणा प्रधानधनुया गाण्डीवाभिधानेत संयुगे-सङ्ग्रामे रतो- रतिमान् । हरजेता- किरातरूपधारिणः सम्भोः तेन रणे पराजितवान् अर्जुनः ॥ ४ ॥
हर्षिता - हर्ष प्रापिता कुः- पृथ्वी येन स तथा । तस्यामन्त्रणम् । 'राद्ध सिद्ध कृतेभ्यो ऽन्तः ' ( अभि. का. २. श्रो. १५६ ) इति निघण्टुवचनात् । कृतान्तः - सिद्धान्तः वस्य हे जनयितः ! -निष्पादक! पक्ष हर्षितः कोकसंज्ञानां वोनां पचिणां निवहो येन । कृतान्तस्ययमस्य पित: ! -सूर्य ! शत्रिविनाशक ! ॥ ५ ॥