SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ( २१६ ) जैनस्तोत्र सन्दोहे [७] श्रीजिनप्रभसूरिप्रणीतः श्रीचतुर्विंशतिजिनस्तवः । [ श्रीजिनप्रम ( श्लेषमयः ) यं सततमक्षमालोपशोभितं सेवतेऽमरालीशः । कमलासनः स्वयम्भूः स श्रीमान्नाभिभूर्जयति ॥ १ ॥ अहितासननिष्णातः पुरुषोत्तमसंश्रितः । विनतानन्दनो विश्वविनेताऽवतु वो जिनः ॥ २ ॥ श्रीजयचन्द्रसूरिकृता अवचूरिः । कमलासनो... सनोति ददाति ।' पणूयी दाने' इत्यस्य । इन्द्रः । सर्वातिशयसूचनी प्रथमार्यापक्षे स्वयम्भूः - ब्रह्मा | कमलासनं यस्य स तथा । हंसः । सेवत इति सण्टङ्कः ॥ १ ॥ हिंसादिप्ररूपणपराणां परेषां शाक्य - साङ्ख्याऽक्षणपादादीनां अहिताना असते- निराकरणे निष्णात:- निपुणः । विनतानां प्रणतार्ना आनन्दनः - मोददः । विश्वं विनयति-शास्त्रीत्येवंशीलो विश्वविनेता | पक्षे अहीनां सर्पाणां तासने शयनमने दक्षः । पुरुषोत्तमं विष्णुं संश्रितः । विनता - सुपर्णी तस्या नन्दनो - गरुड इत्यर्थः । विश्वेषां सर्वेषां वीनां पक्षिणां नेता प्रभुः ॥ २ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy