________________
विनिर्मितम् ] पार्श्वजिनस्तवनम् . ( २१५ ) मलानामलानाय बोभूयमानः शमानाशमानाय मालोयमानः । घनानां घनानां रुचिं प्रास्यमानः स्वकान्त्या स्वकान्त्या
नितोऽव्याज्जिनो माम् ॥१५॥ सुखाने ! सुखानेकधाम्नां कधाम्नां भवाने भवानेतृकोऽपि च्छिदेऽर्हन्। प्रमाद प्रमादक्षयाय क्षयाय व्रजस्य व्रजस्य प्रधानस्य लब्ध्यै ॥१६॥ क्षमाद क्षमादस्वपादप्रसादभ्रमादभ्रमादप्रणाश प्रणादम् । महाना महानागदंकार ! सार ! प्रभो ! मे प्रभोमे दिश त्वं जिनेन्द्र !॥१७॥ मनोभूषणं भूषणं विश्वविश्वे महःपूषणं पूषणं मोहवृत्ते ।। समध्यासितं ध्यासितं नम्रदेवं रमाराजितं राजितं नौमि देवम् ॥१८॥ धुसन्मौलिसन्मौलिपृष्ठाङ्घ्रिपद्मः सुकल्याणकल्याणसिंहासनस्थः । समाधानमाधानदक्षो मतक्षो रमा रातु मारातुरत्वच्छिदेऽर्हन् ॥१९॥ योगतो योगतो निवृति निवृति नीरतो नीरतोषप्रदस्तीर्थपः । साधितः साधितव्याधिनाशोऽवतादानतो दानतोशाब्धिभिर्वै बुधैः॥२०॥
इति जिनेश्वरमरिनुतो गुणै
रमलसत्क्रम ! देहि शिवालयम् । त्वमिह पार्श्व ! कृतप्रणतप्रभा
रम ! लसत्क्रम ! देहि शिवालयम् ॥२१॥
-