________________
( २१४ )
जैनस्तोत्रसन्दोहे [ श्रीजिनेश्वराचार्य
उत्तरं यो व्रते दत्तविद्रावणं सर्वदा सर्वदारिद्र्यविद्रावणम् । तं महामो महामोहसंत्रासकं त्रासकं विद्विषां पार्श्वमत्रासकम् ||४|| शर्मदं कर्मदन्तीन्द्रपञ्चाननं स्तौमि राकाशशाङ्कावजैत्राननम् । श्रीजिनं श्रीजिनं नादिनां वादिनां शुद्धबुद्ध्या सुराचार्यसंवादिनाम् ||४| सारवक्षस्तटं रत्नराजिस्फुटं सद्गुणैरुद्भटं तेजसाऽत्युत्कटम् । कीर्तिभाजं नमामो नमामोदकं तीर्थराजं स्मराम स्मराम प्रभुम् ||६|| नागराजध्वजं प्रहृशऋत्रजं देहिनां दर्शितप्राञ्चमुक्तिव्रजम् ।
संश्रयामो जिनं सन्मतं सन्मतं श्रयश्वसेनस्य वाऽऽनन्दनं नन्दनम् ॥७॥ मोहनं मोहनद्या वह भिन्दते दर्पकन्दर्पकन्दं समुच्छिन्नते । साध्वसं साध्वसं ताषदं शोषदं विघ्नते विघ्नतेस्त्वा नमस्तीर्थराट् ! ॥ ८ ॥ जीवराजीव राजीवराहस्करो पुष्पकोदण्डकोदण्डनिर्जित्वरः । धूततीर्थाधितीर्थाधिनाथः सुखं रात्वसौ भाग्यसौभाग्यवृद्धिदः || ९ || भीमदं भीमदं संहरन्तं नृणां सत्क्रमं सत्क्रमं विक्रमं बिभ्रतम् । सूरसं सूरसङ्काशतेजः पदं शुभ्रभाः शुभ्रभाः कीर्त्तिमर्चे जिनम् ॥१०॥ यो विजिग्ये तपःकामठं कामठं दुर्गतिद्वारसम्पातकम्पातकम् । तं नमामो मुनीपावनं पावनं तीर्थपं क्रोधविध्यापनं ध्यापनम् ॥११॥ जगद्भावलक्षं वलक्षं यशोभिः प्रभाराशिवारांशिवासं जिताशम् | सुधामाङ्गमव्याधिमाधिच्छिदं नमामोऽनमामोदमीशं दमीशम् ॥ १२ ॥ वरीयः समाधिः समाधिप्रमोषस्त्रिलोकीमहोदो महोदोषशोषः । नमद्युक्षमेशक्षमेशः स पार्श्वस्तनोतु प्रमोदं प्रमोदञ्चितं नः ॥ १३ ॥ शमीशः शमीशः कुबोधान्यकान्ते महीयोमहीयो भृशं व्यातनोतु । समेऽतः समेतः श्रिया कष्टकूपप्रपातात् प्रपातात् प्रभुः पार्श्वनाथः ॥ १४ ॥