________________
सरिप्रणीतम्] पार्श्वजिनस्तवनम् . ( २१३ ) त्वमसमानसमानसमापयन् जिनसमक्षयमक्षयमक्षयः । दलितमानतमानवदानवाक्षतभवाय भवाय मे ॥२७॥ इति जिनेश्वरमूरिभिराद्रितैर्जिनवरा नवरागभिदः स्तुताः । प्रपठतां शठतां त्यजतां सतां स्तवमिमं ददतां परसिद्धिताम् ॥२८॥ *भुवि भविक्रमविक्रमदं जिनव्रजमदम्भमदम्भमदं भजे। कमतमानसमानसमानसपरमहंसमहंतसमहंसदा ॥२९॥ परमभङ्गमभङ्गमहाप्रदं नमत रङ्गतरङ्गततेः पदम् । गमसुधामसुधाम सुधामयं श्रुतमुदारमुदारमुदा रदम् ॥३०॥ सुकमलाकमलाकमलाशिनी तमतमामतमामतमाशिनी । शिवरदावरदावरदायिनी सतनुभातनुभा तनु भारति ! ॥३१॥
[८६ ] श्रीजिनेश्वराचार्यमूत्रितं
यमकालङ्कारमयं श्रीपार्श्वजिनस्तवनम्।
देववर्माङ्गजं पिष्टदुष्टाङ्गजं कृष्णरम्याङ्गजं कर्मवल्लया गजम् । निर्जरैः संस्तुतं श्रेयसे संस्तुतं भीतिनिर्दारकं स्तौमि निर्दारकम् ॥१॥ देहिकां लोचनं पाप्मतो मोचनं कामसङ्कोचनं कायगोरोचनम् । दुर्गतित्रोटकं दुर्मतिच्छोटकं धूतविस्फोटकं व्यापदां स्फोटकम् ॥२॥ नीलरत्नावलीविग्रहं विग्रहं ध्वंसमानं स्फुरत्कुग्रहं कुग्रहम् । पार्श्वनाथं स्तुवे कामदं कामदं देवदेवं मुदा भामदं भामदम् ॥३॥