SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ( २२४ ) जैनस्तोत्रसन्दोहे [श्रोजिनप्रम असमाननक्रमकरं समाश्रयं जलपतत्रिवर्गाणाम् । नमिनाथं सजनदत्तरङ्गमानमत भुवनपतिम् ॥ २२ ॥ श्रेयः संवरदस्य श्रीनेमेर्लीला तनोतु वः । पिप्रतो जगतिं गोभिर्यादवोल्लासवर्द्धिनी ॥ २३ ॥ अमृतकरः पार्श्वजिनो हरिणाङ्कितविग्रहः कलानिलयः । नन्द्यात् तमालसत्तमरुचिरच्छविरौषधीभर्ता ॥ २४ ॥ धत्ते योजनलक्षोच्चैर्मानं योगधुरन्धरः। कल्याणगोत्रः श्रीवीरः सोऽस्तु सन्नन्दनः श्रिये ॥ २५ ॥ अवचूरिः। निरुपममुखचरणपाणिम् उपलक्षणत्वात् सर्वाङ्गसुभगम् । जडेषु पतता होयमानानाम् धर्मार्थकामानां आधारम् । राजाद्यवस्थायां युक्त्या तनिषेवणात् । सत्माणिक्लुप्तानुरागम् । जगत्पतिम् । पक्षे महान्तो विसदृशा वा नक्रमकरा-जलचरजन्तुविशेषा यत्र । जलपक्षिसमूहाना आधारम् । अमन्दाः स्वनन्तः कहोला यत्र । भुवनंजलं तत्पर्ति समुद्रामिति विशेष्यम् ॥ २२ ॥ शिवसुखं कर्म । पालयन्तीति । विश्वम् । वाग्भिः । पक्षे शम्बर-जालम् तद्दोऽम्बुदस्तस्य । पूरयन्ती भुवं जलैः या दवानलवृद्धिच्छेदिनी ॥ २३ ॥ शिवकरः । अहिना लाञ्छितवपुः कलानां स्थानम् । तमालो वृक्षविशेषस्तद्वद्रुचिरच्छविः । अच्छा-स्वच्छा विगतरोगा धीर्यस्य स तथा । भर्ता-स्वामो । पक्षे चन्द्रः-मृगाङ्किततनुः । षोडशोऽशःकला । रजना-लसत्तमा रुचिरा च्छविर्यस्य । औषधीनां पति:भर्ता इति तत् कर्मणिं द्वितीया शस् ॥ २४ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy