SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। अथार्यनन्दिलः सरिरुद्याने समवासरत् । साधुवृन्दवृतः सार्धनवपूर्वधरः प्रभुः ॥ १८ ॥ आर्यानन्दिलसमयनिर्णयाय विलोकनीयं मुनिश्रीकल्याणविजयविरचितं 'वीरनिर्वाण संवत् और जैनकालगगना'भिधं हिन्दीभाषापुस्तकम् । ४. श्रीविजयसिंहाचार्यः ।। एतन्नामधेया अनेके समजायन्त सूरिपुङ्गवा तेषु कतमस्य कृतिः नेमिस्तवनं (पृ. १९० मुद्रित) इत्यारेकायां पर्यालोचने प्रवृत्ते प्रभावकचरित्रेऽम्बिकावर्णने" सा निःस्पृहत्वतुष्टा विशेषतस्तानुगच बहुमानात् । गुटिका गृहीत विभो ! चिन्तिककार्यस्य सिद्रिकरीम् ॥११५॥ चक्षुरदृश्यो गगनेचरश्च रूपान्तराणि कर्ता च । कवितालब्धिप्रकटो विषहृद् बद्रय मोक्ष.करः ॥११६॥ भजति जनो गुरुलघुतां प्रपद्यते स्वेच्छया तथा वश्यम् । अनया मुखे निहितया विकृष्टया तदनु सहजतनुः ॥११७॥ गुगेरनिच्छतोऽपि हि हरते मुक्त्वा तिरोदधे च सुरी । वदने तां न्यरय प्राक् श्रीनेमिस्तवममुं चक्रे ॥ ११८ ॥ 'नेमिः समाहितधिया' मित्यादिभिरमर वाक्यसङ्काशैः । काव्यैरस्तौच्छ्रीनेमिस्तुतिरस्ति साऽयापि ॥ ११९ ॥ इत्यादिपद्यावलोकनादतिप्राचीनतरं स्तोत्रमिति निश्चयो मे जातः । यतोऽसौ श्रीविजयसिंहाचार्यः श्रोआर्यखपटवंशीयः । उक्तं च तत्रैव श्रीआर्यखपटवंशे सरिः श्रीविजयसिंह इत्यासीत् । १ एतदर्थे विलोक्यतां प. लालचन्द्र भगवानदासलिखितो जैनसाप्ताहिकपत्रे मुद्रितः 'सिद्धराज भने जैना' शीर्षको लेखः ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy