________________
viva
(२१०) जैनस्तोत्रसन्दोहे [श्रीजिनेश्वर
देव! त्वन्नामसन्मन्त्रो येषां चित्ते चकास्ति न । मोहसर्पविषं तेषां कथं यातु क्षयं क्षणात् ? ॥ ६ ॥ परिस्पृशन्ति ये नित्यं त्वदीयं पदपङ्कजम् । तेषां तीर्थेश्वरत्वादिपदवी न दवीयसी ॥ ७ ॥ नमः सद्दर्शनज्ञानवीर्यानन्दमयाय ते । अनन्तजन्तुसन्तानत्राणप्रवणचेतसे ॥ ८ ॥ एवं युगादितीर्थेशं ये स्तुवन्ति सदा नराः । देवेन्द्रवृन्दवन्द्यास्ते प्राप्नुवन्ति महोदयम् ॥ ९ ॥
[८५] श्रीजिनेश्वरमरिमणीतं
यमकाङ्कितं श्रीचतुर्विंशतिजिनस्तवनम् ।
ऋषभनाथ ! भनाथनिभानन ! प्रसृतमोहतमोहननक्षम ! । दिश सुवर्णसवर्णसुवर्णरुक परमकाममकामवि र्णरुक् ॥१॥ सुरुचिरं रुचिरं रुचिरञ्जितैर्वरसुरैरसुरैश्च यदर्चितम् । अजितदेव ! तदेव तव क्रमद्वयमधीशमधीशमनस्तवै ॥२॥ सुमनसं भवसम्भवसम्भवत्सुमहसं महसंहतिकारणम् । स्तुत जितारिजितारिनृपाङ्गजं सुमहितं महितं जिनसम्भवम् ॥३॥ त्वमभिनन्दन ! नन्दन ! संवरक्षितिभृतोऽतिभृतोऽतमसंवर!। वितर मङ्गलमङ्गलसत्प्रभ ! प्लवगलक्षण ! लक्षणशोभितम् ॥ ४ ॥