________________
rrrrrrrrrrrrrrrrrrrrrrn. www
सूरिविरचितम् ] युगादिजिनस्तवनम् . ( २०९ ) स्तवस्तव जिनैकोऽपि तनोति सुरसम्पदम् । पुंसां नाथ ! प्रतिक्षिप्तातनोऽतिसुरसं पदम् ॥ २९ ॥ वासवस्तुतपदो महामहा भक्तदत्तविलसं (य) महापदः । वागपोहिततमस्तमा जिनस्वामिनो विदधतां सुखश्रियम् ॥३०॥ इति श्रीचतुर्विशतिजिनस्तुतयः । कृतिरिय जिनपतिसूरीणाम् ॥
[८४ ] श्रीदेवेन्द्रसूरिप्रणीतं श्रीयुगादिजिनस्तवनम् ।
जय देवाधिदेवाऽऽधिव्याधिवैधुर्यनाशन !। सर्वदा सर्वदारिद्रयमुद्राविद्रावणक्षम ! ॥ १ ॥ अगण्यपुण्यकारुण्यपण्यापण ! वृषध्वज !। जय सन्देहसन्दोहशैलदम्भोलिसन्निभः ॥ २ ॥ स्फुरत्कषायसन्तापसन्तापशमनामृत !। जय संसारकान्तारदावपावकपावन ! ॥ ३ ॥ सदा सदागमाम्भोजविबोधनदिनप्रभो ! । नत्वा न त्वा भवे भावि भाविनः पतनं खलु ॥ ४ ॥ ये देवदेव ! गम्भीरनामे ! नाभेय ! भूरिभिः । त्वद्गुणैः स्वं नियच्छन्ति ते मुक्ताः स्युर्महाद्भुतम् ॥ ५ ॥
१४