SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ (२०८) जैनस्तोत्रसन्दोहे [ श्रीदेवेन्द्र येन त्वं नाञ्चितः कर्मवनवैश्वानरोपमः । सोऽरनाथः कुधीभव्यावनवैश्वानरोपमः ॥ १८ ॥ नाङ्घ्रिपद्मस्तुतः सिद्धिप्रतिपन्नसदारुणः । येन ते भिद्यते मल्ले ! प्रतिपन्नसदाणः ॥ १९ ॥ श्रीसुव्रतजिनाधीशमक्षमालोपशोभितम् । विरश्चिमिव सेवध्वमक्षमालोपशोभितम् ॥ २० ॥ देव्योऽपि तद्गुणोद्गानासहा मन्दरसानुगाः। गायन्ति त्वां नमे ! भक्त्या सहामन्दरसानुगाः ॥ २१ ॥ तृष्णातापा त्वया वर्ष शमिता दानवारिणा। श्रीनेमे ! जिन ! ताराध्यशमितादानवारिणा ।। २२ ॥ पार्थ ! देव्यः सदाक्लप्तमहाहारतरङ्गिताः । नाटयन्ति चरित्रं ते महाहारतरङ्गिताः ।। २३ ॥ वोरो जिनपतिः पातु तन्वानः काञ्चनश्रियम् बिभ्रन्ननेषु निःसीर्मा तन्वा नः काञ्चन श्रियम् ॥ २४ ॥ गर्भजन्मव्रतज्ञानश्रेयःकल्याणकेष्वयम् । जिनश्चिनोतु भव्यानां श्रेयः कल्याणकेष्वयम् ॥ २५ ॥ भूत्यै भवन्तु जन्तूनां सत्पक्षाहितमानसाः । *हंसा इव जिनोत्तंसाः सत्पक्षाहितमानसाः ॥ २६ ॥ श्रयध्वं शासनं जैनं प्रौढपाठीनधीवरम् । वोढारमिव गङ्गायाः प्रौढपाठीनधीवरम् ॥ २७ ॥ डिम्बमम्बा हियादुद्यत्कलकण्ठीरवासिता । सिद्धबुद्धासिता कीा कलकण्ठीरवासिता ॥ २८ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy