________________
सूरिविनिर्मितम्] श्रीचतुर्विशतिजिनस्तवनम् (२०७)
सुपार्श्व ! त्वच्छूतं श्रुत्वा दर्पकोपकमानकम् । मुञ्चन्ति जन्तवः शान्तदर्पकोपक्रमानलम् ॥ ७ ॥ भवांश्चन्द्रप्रभेन्द्रेण यैरभाजि समुन्नतः । तैः कर्मपादपः प्राप्तायैरभाजि समुन्नतः ॥ ८ ॥ सुविधे ! त्वद्विधिं प्राप्य प्रनाद्यन्त्यसमाहिताः । ये ते श्रेयःश्रियं श्रस्तप्रमाद्यन्ति समाहिताः ॥ ९ ॥ सेवन्ते शीतल ! त्वां ये देव ! सम्पन्नकेवलम् । अपि मुक्तिर्भवेत् तेषां देवसम्पन्न केवलम् ॥१०॥ श्रीश्रेयांस ! तनूभाजां परमोक्षगतिर्भवान् । अनन्तान् हन्त्वविश्रान्तं परमोक्षगतिर्भवान् ॥११॥ वासुपूज्य ! नवस्वर्णनीरजारूढसत्क्रमः । हर त्वं विहरन्मोहं नीरजा रूढसत्क्रमः ॥ १२ ॥ विमल ! त्वां प्रति स्वं ये रञ्जयन्ति मनो भवम् । अपि दुर्जयमुच्चैस्तेऽरं जयन्ति मनोभवम् ॥ १३ ॥ जग्मिवांसमनन्त ! त्वां नमस्यन्ति महापदम् । ये ते विश्वत्रयीलक्ष्मीनमस्यन्ति महापदम् ॥ १४ ॥ नाश्रितस्तव सिद्धान्तो येनावीतनयस्ततः । वरं धर्माजिनधर्मा ये नावीतनयस्ततः ॥१५॥ श्रीशान्ते ! देहिनां देहि सारङ्गविदधद्धृतिम् । शर्मकर्मततेरसारङ्ग ! विदधद् धृतिम् ॥ १६ ॥ कुन्थुनाथः सुपन्थानं विधुतारो वृषादतः । । पुंसा तन्यात् पिनाकीव विधुतारो वृषादृतः ॥ १७ ॥