________________
( २०६ )
जैनस्तोत्र सन्दोहे [ श्रीजिनपति
इत्थं भूमिभृदश्वसेनतनय ! श्रीपार्श्व ! विश्वप्रभो ! | श्रीवात्मात्मज ! सुप्रवर्त्तितनय ! श्रीधर्मसूरिस्तुत ! | ये कुर्वन्ति तव स्तवं नवनवं प्रीत्युल्लसन्मानसास्तेभ्यस्त्वं नतवत्सलो निजपदं दद्यास्त्रिलोकीविभो ! ॥ १६ ॥
[ ८३ ] श्रीजिनपतिसूरिप्रणीतं यमकमयं
श्रीचतुर्विंशतिजिनस्तवनम् ।
श्रीनाभेय । जिनेश ! त्वं नन्द्यायतशितांशुकः । यथा कुमुद्वतीनेता नन्द्यायतशितांशुकः ॥ १ ॥ उपाध्वमजितं भक्त्या कं दधानमनेकपम् । प्रणतोद्बोधितज्ञानकन्दधानमनेकपम् ॥ २ ॥ श्री सम्भव ! प्रपन्ना ये समयं ते सदादरात् । ते संसारवनान्मुक्ति समयन्ते सदा दरात् ॥ ३ ॥ येsभिनन्दन ! ते तीर्थराज ! पादसभाजनाः । विलसन्ति चिरं तेऽत्र राजपादसभाजनाः ॥ ४ ॥ पूजिताङ्घ्रिद्वयी मुक्त्यै कान्ता राजीवमालया । सुमते ! तव नांहः कान्तारा जीवमालया ॥ ५ ॥ पद्मप्रभः सुदृष्टीनां भूरिशोभातपोदयः । हन्यात् तमांसि पूषेव भूरिशो भातपोदयः ॥ ६ ॥