________________
rwarrrrrrrrrrrrrrrrrrrrrrr
सूरिप्रणीतम् ] चतुर्विंशतिजिनस्तवनम् । (२११) सुजिनपश्चम ! पञ्चमरागजिन्मधुरनिःस्वन ! निःस्वनरार्थकृत् । इन ! नमो न न मोहमपास्यते वसुमते सुमते ! सुमतेऽत्र ते ॥५॥ अरुणसुप्रभसुप्रभ ! सुप्रभो ! भुवि नतामर ! तामरसाङ्कभृत् !। धरधराधिपनन्दन ! नन्दनस्तनु सुखानि सुखानिरसि श्रियः ॥६॥ शिवसुपार्श्वसुपार्श्व ! तमस्तमस्तपनकल्प न कल्पविलङ्घनः । कनककेतकविग्रह ! विग्रहच्छिदुर ! मेदुरमेधय मे सुखम् ॥७॥ अपरिदेवन ! देव ! नदे वनस्फुरदघस्मरघस्मर सेवनः । किरत मोहतमोह शशिप्रभस्मिततुषारतुषारकरप्रभः ॥८॥ अनवमं नवमं नवमङ्गलं विदधतं दधतं च रुचिं शुचिम् । जिनमिह स्मरत स्मरतक्षणं सुविधिमार तमारततक्षणम् ॥९॥ दृढरथाङ्गज ! नन्दजनं दरप्रशमनं शमनं शमनस्तमः । दशमतीर्थप ! रागपरागतशमव शीतल ! शीतलले शमम् ॥१०॥ देवः श्रीमद्विष्णुविष्णुप्रसूतः कामं कामं ध्वंसमानः समानः । धर्म दद्याद् धाम धामबजस्य श्रीश्रेयांसः श्रीसनाथः स नाथः॥११॥ विद्यां दद्यादप्रमादप्रमादलप्तव्याधिक्षप्रसादप्रसाद !। शोणाश्मश्रीसप्रभाव प्रभावस्तीर्थस्वामी वासुपूज्यः सुपूज्यः ॥१२॥ त्वममदा मम दारितसन्नमन्नृभवलक्षवलक्षबलक्षमः । शिवरमां वरमां कृतवर्मभू: (१)नय विभो ! विमलो विमलोज्ज्वलाम् १३ अमदनं मदनम्रसुरासुरव्रजनविभ्रमविभ्रमविभ्रमाम् । जिनमनन्तमनन्तमनन्तकप्रभुमनन्तमनङ्गजमर्चितः ॥१४॥ कुलिशविद्रुममन्दममन्दिरं पिदधतं दधतं महिमाद्भुतम् । महत धर्ममधर्ममतच्छिदं गुरुमहोदमहोदमभूषितम् ॥१५॥