________________
(२०४) जैनस्तोत्रसन्दोहे [ श्रीधर्मसूरि
कान्तिः कापि कपोलयोर्विमलयोः श्रीः कापि सौम्ये मुखे __च्छाया कापि विशालयोनयनयोर्भा काऽपि कण्ठेऽनघे । शोभा काऽप्युरसि स्थिरे सरलयोर्बाह्वोः किमप्यूर्जितं
त्रैलोक्यैकशरण्ययोश्चरणयोस्ते देव ! किं जूमहे ॥ ५ ॥ किं पीयूषमयी किमुन्नतिमयी किं कल्पवल्लीमयी
किं सौभाग्यमयी किमक्षरमयी किं विश्वमैत्रीमयी । किं वात्सल्यमयी किमुत्सवमयी किं लब्धिलक्ष्मीमयी
दृष्टुत्थं विमृशन्ति ते सुकृतिनो मूर्ति जगत्पावनीम् ॥ ६ ॥ स्वामिन् ! दुर्जयमोहराजविजयप्राविण्यभाजस्तव __ स्तोत्रं किं कमठोरुदर्पदलने श्रीपार्श्व ! विश्वप्रभो!। तिग्मांशोर्यदि वा स्फुरद्ग्रहमहःसन्दोहरोहद्रुहः
खद्योतद्युतिसंहृतिश्रुतिपदे वर्तेत किं कोविदः ॥७॥ सश्रीकान् तव वक्त्रदुग्धजलधेरुद्भूतमत्यद्भुतं
मोहोच्छेदकतत्त्वसप्तकवचः पीयूषमित्यादृतः । विश्वेभ्यः फणभृद्विभुः फणिमणिव्याजात् प्रफुल्लत्फणा____ पात्रीभिः पृथुभिर्विभाति परितः स्वामिन् ! प्रयच्छन्निव ॥८॥ किं मन्त्रैर्मणिभिः किमौषधगणैः किं किं रसस्फातिभिः
किं वा संवननैः किमञ्जनवरैः किं देवताराधनैः । जन्तूनामिह पार्श्वनाथ इति चेन्नित्यं मनोमन्दिरे
कल्याणी चतुरक्षरा निवसति श्रीसिद्धविद्याऽद्भुता ॥९॥ ' भास्वन्तं परमेष्ठिनं स्मररिपुं बुद्धं जिनस्वामिनं
क्षेत्रज्ञं पुरुषोत्तमं गणविभुं सौम्य कलाशालिनम् ।