________________
( २०२ )
जैनस्तोत्रसन्दोहे
[श्रीधर्मसूरि
पीनोनतस्तनभृरैर्विनताङ्गभागा
श्चञ्चद्वलित्रयविराजिततुच्छमध्याः ॥ १२॥ त्रिदशपतिपुरन्ध्यो हावभावाङ्गभङ्ग
प्रभवकिरणकेलीकीलिताशेषलेखाः । यदतिरुचिररूपं प्रेक्षणाक्षेपवत्यः
सद्गभिनयनृत्यं यत्पुरो हीत्यकार्षीः(र्घः) ॥ १३ ॥ अमानबाधारहितं जिनाजित
ममानबाधारहितो जनोऽजितः । विनत्य शान्तिं भवतीरराजितं
विनत्य शान्तिर्भवतीरराजितः।। १४ ॥ इत्युद्दाममकामकामितफलान्यादातुकामः शमी
सानन्दं पठति स्तवं शमशठोऽकुण्ठः सदा कर्मठः । या व्याजेन विनाऽनयोस्स जिनयोः पक्षादिपर्वस्वमुं स्वर्लन्ध्या जिनदत्तनम्रजनता शर्मास्तकर्मा भवेत् ॥ १५ ॥
इति श्रीमदजितशान्तिजिनस्तवनम् । वाचनाचार्यधुर्यस्मर्यश्रीश्रीश्रीज्ञानविमलगणिप्रवराणां पं० श्रीवल्लभगणिनाऽलेखि । श्राविकायशोदापठनार्थम् ।
समा