SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिजिनस्तवनम् त्वं संसारमरौ निरन्तरमहादुःखाकुले देहिनां मार्ग: स्वर्गपुरस्य नाथ ! वितत: किंवाऽपवर्गस्य च ॥१२॥ सूरिविरचितम् ] शुक्लध्यानसरो विनीलनलिनाकारोऽपवर्गद्रुमच्छायाबन्ध इवैककेवलिदृशोर्मध्ये स्फुरत्तारकः । नीलाश्मप्रभवत्तदेकममलं पात्रं परं ज्योतिषः कुर्याद् योगबलच्छविः सुकृतिनां नेमिर्विशुद्धं पदम् ॥१३॥ आकर्णायत योर्विनीलनलिनश्वेताम्बुजाप्तश्रियोः किञ्चिन्मन्थरयोर्मनाग् मसृणयोरुद्वृत्त सत्तारयोः । कारुण्यामृतसारिणीसरलयोः संसन्धयोः सर्वदा ( १९३ ) नेमेर्यामि बलिं दृशोऽस्तु वसुधाश्वेतच्छटाच्छाययोः ॥ १४ ॥ त्रैलोक्यालम्बदण्डः परमपदगृहारोहनिःश्रेणिदण्डः कन्दर्पाघातदण्डो भवजलधिपतेर्देहिनां सेतुदण्डः | दोर्दण्डः पातु नेमेर्नरकपुरमहाद्वाररोधैकदण्डः सद्धर्माधारदण्डो हरिनिबिडकरात् कर्षणान्दोलदण्डः ॥१५॥ एते मूढधियो वदन्ति किमपि स्वामिन् ! मदीयं मनस्त्वेवं कल्पयते त्वमेव भुवने देवाधिदेवः परम् । यत्रैतानि जगन्ति जातविविधव्यावर्त्तनोद्वर्त्तन व्यापाराणि परिस्फुरन्ति सततं विज्ञानरूपे त्वयि ॥ १६ ॥ रागद्वेषविसंस्थुलेन मनसा यत्किञ्चिदासेवितं जन्मन्यत्र परत्र वा गतिवशात् तैस्तैरुपायैः स्तुमः । तत् सर्व जिनचन्द्र ! सर्वगमहाज्योतिः स्वरूपे त्वयि प्रत्यासत्यमुपागते हृदि कथं बध्नाति नित्यस्थितिम् ॥१७॥ ૧૩
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy