SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ( १९४ ) जैनस्तोत्रसन्दोहे [ श्रीजिनवल्लभ यस्यते शशिभास्करप्रभृतयः सूक्ष्माणुगः सर्वगं लोकत्रयभास्करद्युति पुनः सूक्ष्मं न यद्वीक्ष्यते । यत्कर्मेन्धनदाहदारुणमिदं निर्वाणगं देहिनां तज्ज्योतिर्जगदेकवन्द्य ! गुणिभिस्त्वं योगिभिर्गीयसे ॥ १८ ॥ यत्रैष स्मरभिल्लभल्लिनिकरः कल्पान्तकालानलस्पर्द्धिक्रोधदवानलः पुनरियं यस्मिन् जरा राक्षसी । यत्रायाति पुरो महाभयकरः पञ्चत्वपञ्चानन स्तेषां तद् भवकाननं भयकरं त्राता न येषां भवान् ॥ १९ ॥ देवाकृष्य करेण केसरिपदं दन्ती कपोलस्थली कण्डूयत्यहिरेष बभ्रुपुरतो मार्ग निरुध्य स्थितः । व्याघ्रं व्यात्तविशालवक्त्रकुहरं जिघ्रत्यजत्रं मृगो यत्रैवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भुवम् ||२०|| चेतस्तावदपारनिर्मलगुणाम्भोधौ निमनं मुदा चक्षुस्त्वद्वदनावलोकनवशाद् बाष्पाम्बुपूर प्लुतम् । नो वाचामिह माहशामहरहः प्राप्तोऽप्यनल्पैनसा न ध्यातो न विलोकितो न च जिन ! स्तोत्रैः स्तुतः स्वेच्छया २१ निःसङ्गोऽपि निरुत्सुकोऽपि निरहङ्कारोऽपि निर्वागपि त्यक्त्वा शेषममत्वबुद्धिरपि यत्त्वं वीतरागोऽपि सन् । त्वं स्वामित्वमनिन्दितो गुरुरसि त्वं मे पिता जीवितं मिथ्यास्मिन्नपि चेन्ममास्ति गदिते त्वन्मे प्रमाणं भवान् ||२२|| सम्यग्ज्ञानविहीनमूढमतयस्तत्त्वानभिज्ञा वयं तत्त्वप्रीतिमतो नरस्य नियतं मुक्तिश्चरित्रात्मनः ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy