________________
चार्यप्रणीतम् ]
नेमिाजनस्तवनम् .
( १९१ )
wwmanAmARAan
तेषां कुठार इव दूरनिबद्धमूल
दुष्कर्मवल्लिगहनं सहसा छिनत्ति ॥ १ ॥ जय त्वं देवेश ! त्रिभुवनपते ! शान्तहृदय !
त्रिलोकीसङ्कल्पद्रुमवरकृपाकार ! वरद ! । समुद्धर्तुं मिथ्याजलधिलहरीतः क्षणमितो ___ मयि द्रोणीदीघों जिन ! सकरुणां निक्षिप दृशम् ॥ २॥ पूजापत्रचयैर्निरन्तरलसत्पत्रावलीमण्डितो
नानावर्णसुगन्धिपुष्पनिकरैः सर्वत्र यः पुष्पितः । पादान्ते परिणामसुन्दरफलैः सम्भूषितः सर्वतो
नेमिः कल्पतरुः सतामविकलं देयात् तदम्यूं फलम् ॥३॥ आश्चर्य भुवनैकभूषण ! भवान् कल्पद्रुमः पण्डितैः
सिक्तो भक्तिजलेन तो(ते)षु कुरुते थो(क्षे)माङ्करं यत् किल। एतस्मादपि चित्रमेतदपरं नेमे ! दुरापं सुरै-- ... रुच्चैर्यत् तदपि प्रशान्तमतिभिर्नः फलं प्राप्यते ॥ ४ ॥ उद्यमोहमहान्धकारतरणिस्त्रैलोक्यचिन्तामणि
नित्यानन्दपदक्रयाणविपणिर्लोकाग्रभूषामणिः । निर्वाणैकपुरप्रयाणसरणिः सज्ज्योतिरेकारणी
दिश्यानेमिजिनः स किङ्करसुरश्रेणिः सतां मङ्गलम् ॥ ५ ॥ धन्यैः कैश्चन धीरसंस्तुतगुणः पापैः पुनर्नन्दित
स्तुल्या तेषु तव प्रवृत्तिरिति ते श्लाध्यैव नीरागता । तेषां यत् तु शुभाशुभेन घटना तत्रासि हेतुः कथं
को जानात्यथवा जगत्त्रयपते ! तत्त्वं जिन ! त्वादृशम् ॥६॥
'