SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ( १९० ) जैनस्तोत्रसन्दोहे [ श्रीविजयसिंहा अमूर्द्धा तत्र भूयासं वासवस्यापि जन्मनि । प्रणामः क्रियते यत्र भवतोऽन्यस्य कस्यचित् ॥ ११ ॥ जानामि यद् विधाताऽसि नोपकारापकारयोः । त्वामेव सेवितुं देव ! स्पृहयालुस्तथाप्यहम् ॥ १२ ॥ न ते कोऽपि न कस्यापि महेश ! स भवान् भवान् । भूर्भुवःस्वस्तथाप्येतत् त्वत्पादाङ्कितमानसम् ॥ १३ ॥ ममाऽपवित्रो मूर्द्धाऽयं त्वदन्यनतिकल्मषैः । त्वत्प्रणामहुताशेन विशुद्धिं लभतां मुहुः ॥ १४ ॥ मुक्तिशुक्तिनिपेयस्य परब्रह्मरसस्य नः । सौहित्यसम्पदं देव ! प्रसीद भव दक्षिणः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम चन्द्रावदातचरिताश्चितविश्वचक्र ! | wwwwww शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥ [ ७८ ] श्रीविजयसिंहाचार्यविरचित श्रीनेमिजिनस्तवनम् । नेमिः समाहितधियां यदि दैवयोगाचित्ते परिस्फुरति नीलतमालकान्तिः ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy