________________
( १८८) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्र
विश्वस्माद्विश्वतोऽन्यत्वं त्वत्तः पुनरनन्यताम् । ___ य एव भावयेन्नाथ ! स एव शिवमश्नुते ॥ ८ ॥ अहं ममेति सम्मोहो येषां जीर्णस्तवोक्तिभिः । ___ कृतिनस्ते न बाध्यन्ते स्वस्वकीयविपत्तिभिः ॥ ९ ॥ स्वाम्यं स्वतां च गच्छन्तस्ते विषीदन्ति किं बुधाः ।
भवद्वावाक्यसुधासारैर्येषामा सदा मनः ॥ १० ॥ यत्पूर्वं पूजितो नासि न व्यातो न च संस्तुतः ।
तेनास्मि पाप्मना प्राप्तस्त्रातः ! क्रूरेषु दासताम् ॥ ११ ॥ नास्म्यलं याचितुं किञ्चिल्लज्जमानः स्वपाप्मभिः ।
तथापि बोधिमाधेयाः कथञ्चित् कापि जन्मनि ॥ १२ ॥ तत्कर्म न कृतं किश्चिदत्र जन्मनि शोभनम् । __बोधिमात्रेऽपि येनाशां हताशः करवाण्यहम् ॥ १३ ॥ न नाम संयमं प्राप्य न कृतं संयमोचितम् ।
तत् किश्चन कृतं देव ! यत्पापस्यापि नोचितम् ॥१४॥ एकोऽहं देव ! दोषाणामशेषाणां महाखनिः। निवेदिते यथावस्तु साम्प्रतं यद् विधेहि तत् ॥ १५ ॥
स्वामिन्ननन्तफलकल्पतरोऽभिरामचन्द्रावदातचरिताश्चितविश्वचक्र !।
शक्रस्तुताघ्रिसरसीरुह ! दुःस्थसाथै देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥