________________
NNN
(१८४)
जैनस्तोत्रसन्दोहे [श्रीरामचन्द्र
[७४ ] क्षीणापायोऽपि निश्शेषविशेषोपेयसिद्धिभाक् ।
देव ! पुष्णातु विश्वस्य वीतरागो विरागताम् ॥ १ ॥ न पाप्मनो विरज्यन्ते शासकेन त्वयाऽपि ये।
राज्येऽपि भास्वतस्तेषां ध्वान्ताभोगभृतैव भूः ॥ २ ॥ शाम्यन्नपि भवद्वाह्यः शमं नायाति तादृशम् ।
न सा कूपोदकैश्वछाया वीरुधां या धनोदकैः ॥ ३ ॥ तफ्स्यन् शाश्वतं ज्योतिः श्रद्दधानोऽपि पश्यति ।
मर्मभेदिषु धर्मेषु वर्षास्वपि घनोदकम् ॥ ४ ॥ उपसर्गान् स्वयं सोढा बाध्यते न भवोर्मिभिः ।
हिमानी बाधितुं देव ! नाम्भोमग्ना तरस्विनी ॥ ५ ॥ आकालं यैर्न लब्धोऽसि ते शोच्या एव जन्तवः ।
लब्ध्वापि यैः पुनस्त्यक्तः कस्तेषां ब्रूहि निर्णयः ? ॥ ६ ॥ निधीनालोक्य जाताः स्म सद्यस्तद् वयमन्धलाः ।
यदासाद्य भवान् भर्ता समीचीनं न सेक्तिः ॥ ७ ॥ महान्तो हन्तकारेऽपि यद् वैरिमुखवीक्षिणः ।
त्वदाज्ञालोपकोपस्य स ध्रुवं दण्डडिण्डिमः ॥ ८॥ प्रसीद कुरु कारुण्यं दीनचूडामणौ मयि ।। ____ एनांसि बिभ्रतां नाशमेधांसीव कृशानुना ॥ ९ ॥
सम्पदो विपदः सर्वा विशीर्यन्ते यथा मम । न तथा प्रतिक्रियां काश्चित् कर्तुः संरम्भमुद्रह ॥ १० ॥