________________
(१८२)
जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रत्वदाज्ञां नानुतिष्ठन्ति यद् द्विषस्ते तदौचिती ।
यद् वयं नानुतिष्ठामस्त्वद्भुजिष्याः स को नयः ? ॥१४॥ अर्हअर्हन्निति त्रातस्त्रातुं पूत्कुर्वतो मम ।। समं समन्ततः कण्ठः पापं पुण्यं च शुष्यतु ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताश्चितविश्वचक्र !। शक्रस्तुताघ्रिसरसीरुह ! दुःस्थसाथै .
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[ ७३ ] सजन्मानमजन्मानं स्थावरं नश्वरात्मकम् ।
विश्वरूपमरूपं च देवं जिनपतिं स्तुवे ॥ १ ॥ सतामुन्मीलयन् दृष्टिं पापपङ्क त्वशोषयन् ।।
भानुमान् भवतः कोऽन्यो लोकस्यास्य तमस्वतः ? ॥२॥ कषायवह्निना विश्वे ज्वलत्यस्मिन् समन्ततः । ... त्वमेव पुष्करावर्तो देशनासारमावहन् ॥ ३ ॥ कुतीर्थयायिनां नाथ ! संसारापारवारिधौ । ..निर्यामको भवानेव नृणां सर्वपथीनदृक् ॥ ४ ॥ त्वदाधारमिदं येन विश्वं विश्वं चराचरम् । ___ त्वमेव देव ! मन्यन्ते ततस्तत्त्वस्पृशो वियत् ॥ ५ ॥
अनन्तरत्नभाजोऽपि रत्नत्रयवतो मम । . समुद्रास्ते जडात्मानः प्रकृष्यन्तां कुतः प्रभो ! ॥ ६ ॥