SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे अन्तर्निःसारमापातरम्यं ग्राम्यानुरञ्जकम् । चित्रकाव्यमिवान्येषां वचः पर्यन्तनीरसम् ॥ १२ ॥ मनीषिपरितोषिण्यो मनः श्रोत्ररसायनम् । सत्काव्यानीव ते देव ! परमार्थपरा गिरः || १३ ॥ निष्फला भोगिसंसेव्या जाड्यनिर्माणकार्मणम् । मिथ्यादृशां गिरो देव ! श्रीखण्डतरुसोदराः ॥ १४ ॥ वचस्वी च यशस्वी च तेजस्वी च क्षणेन सः मल्लीविलासिनी यत्र खेलतस्तव लोचने ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम ( १७२ ) चन्द्रावदातचरिताञ्चितविश्वचक्र ! | शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे [ श्रीरामचन्द्र wwwwwww देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥ [ ६७ नमो निर्लननिश्शेषदोषसन्तानवीरुधे । 'देवाय वीतरागाय प्राप्तनिर्वाणशर्मणे ॥ १ ॥ मनसा यत् परोक्षोऽसि हृदये निवसन्नपि । तत्ते चरित्रवैचित्र्यमवैति यदि केवलम् ॥ २ ॥ मलीमसदृशो जाड्यकण्डूलास्तुन्दिलांहसः । विशुध्येयुः कथं विश्वजनीनः स्यान्न चेद् भवान् ॥ ३ ॥ प्रकाशयति वस्तूनि प्रत्याशं ज्योतिषा त्वयि । कुतोऽन्येषां प्रभा चन्द्रे ताराणामिव पार्वणे ॥ ४ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy