________________
साधारणजिनस्तवाः
सुखानामिव सन्तोषो दुःकीर्तेरिव दुर्णयः ।
आत्मैव पुण्यपापानां प्रशमस्येव संवरः ॥ १४ ॥ प्रेष्यतेव महाधीनामारम्भ इव दुर्गतेः । क्षेत्रं त्वमेव देवेश ! सर्वज्ञ ! ज्ञानसम्पदः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरो ! ऽभिराम
सूरिविरचिताः ]
चन्द्रावदातचरिताञ्चितविश्वचक्र ! ।
शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे
( १६९ )
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[ ६५ ] आनन्दमर्हतः पादास्ते देवासुरनश्वरम् । ये नवेन्दुप्रभाजालैः कुर्वन्ति वितमो जगत् ॥ १ ॥ विद्वानपि यथा हास्यः परकाव्यैः कविर्भवन् ।
तथा भक्तोऽप्यहं स्तोत्रं पात्रं कुर्वन् भवद्गुणान् ॥ २ ॥ त्वद्वाक्यश्रवणादेव देव ! भ्रश्यन्ति दुर्ग्रहाः । धूमरीशीकरासिक्ता माकन्दमुकुरा इव ॥ ३ ॥ द्विषोऽपि गमयत्येव त्वन्मूर्त्तिं सौहृदं क्षणम् । पिचुमन्दफलानीव पाकः कामधुरं रसम् ॥ ४ ॥ शतपत्रपुष्पाणीव वचसा शिशिरेण ते । द्विषतामपि चेतांसि रक्तिमानमुपासते ॥ ५ ॥ उच्च प्राप्याऽपि ते (मं) स्थानं ये न निश्चलवृत्तयः । पातालं ते प्रयास्यन्ति पादा वटतरोरिव ६ ॥