SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwwwwwwwwwwwwwwwvv सरिविरचिताः] साधारणजिनस्तवाः (१६७ ) अद्यश्वीनो भवाम्भोधिसमुत्तारस्त्वदञ्चिनाम् । अद्यप्रातीनमेवेशं सिद्धिसौधाधिराहणम् ॥ १० ॥ वैहासिकः कथं न स्यादसौ निर्वाणकुट्टिमे । यः स्याद् भवद्गुणोद्घोषवाचाटश्चाटुकर्मभिः ॥ ११ ॥ नि नकिन्नरीगीतगन्धारग्रामसौरभैः । मेरीमुखोदरोद्गीर्णाकुलाशानि भाकृतेः ॥ १२ ॥ प्रचलच्चामरोबुद्धगन्धवाहविशृङ्खलैः । धौतदिग्गजगण्डाङ्कदानाम्भांसि जलोम्मिभिः ॥ १३ ॥ चारीप्रचारनिर्घातपतद्भिः शैलसानुभिः । कम्पमानावनीव्यग्रनागराजशिरांसि च ॥ १४ ॥ त्वजन्म मजनारम्भसंरम्भोत्कर्षहर्षणैः । हरन्तु डिम्बषण्डानि ताण्डवानि बलत्विषः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरो ! ऽभिराम-- चन्द्रावदातचरिताञ्चितविश्वचक्र !। शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसाथै देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥ [६४ ] अर्हते देवदेवाय शीर्णसंसारहेतवे । पर्याप्ताशेषकृत्याय ज्योतिर्मात्रात्मने नमः ॥ १ ॥ वन्दारुशक्रकोटीररत्नच्छायाच्छटाच्छिदः ।। तमो मुष्णन्तु विश्वस्य भवत्पादनखांशवः ॥ २॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy