SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे शकस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणाङ्कुरु देहि दृष्टिम् ॥ १६ ॥ ( १६६' ) [ श्रीरामचन्द्र [ ६३ ] अनन्तदर्शनज्ञानसुखवीर्यमविस्मयम् । अशोकहर्षाप्रत्यूहकल्याणं संस्तुवे जिनम् ॥ १ ॥ रजो हरन्तु ते धर्मदेशना सरितः सताम् । मज्जन्नपि जनो यासु न जाड्यमधिगच्छति ॥ २ ॥ त्वत्पादपाटलज्योतिः कडारकबरीजुषि । नम्राणां मांसला मूर्ध्नि कटाक्षा निर्वृतिश्रियः ॥ ३ ॥ लघुस्त्वदश्चिनां देव ! भवाम्भोधिर्महानपि । सर्वज्ञसंविदो व्योम निरन्तमपि मुष्टिगम् ॥ ४ ॥ असान्तापिकसिद्धान्तविदुचन्द्र कितश्रुतिः । हिंसापिच्छलवेदोक्तिशूनां को नाम संस्पृशेत् ? ॥ ५ ॥ विसारिसौरभोल्लासमिलितालिकुलास्तृतः । दिव्यपुण्योपहारस्ते पञ्चवर्णोऽपि मेचकः ॥ ६ ॥ पुरस्ते भान्ति विश्वस्य वन्दारोः प्रति यातनाः । देशनां श्रोतुमायाताः पातालादिव नारकाः ॥ ७ ॥ विबुधाध्वन्यपि प्राप्ता ये नीचगतयो जनाः । ते प्रयान्त्येव पातालं नाथ ! पाथो यथाभ्रजम् ॥ ८ ॥ अक्षिगेगाsपि निःशेषदोषकाननलाविना । ब्रह्मादीनामशेषाणां त्वया मूर्ध्नि कृतं पदम् ॥ ९ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy