________________
सरित्रणीताः]
साधारणजिनस्तवाः .
(१६५)
तस्यावश्यं पुरो मुक्तिोऽध्वनीनस्तवाध्वनि । वृष्टौ प्रकाशमानस्य तिग्मांशोरिव कार्मुकम् ॥ ६ ॥ सद्यः पुष्यन्ति ये योषित्पादघातमहोत्सवैः । अशोकगोत्रिणो देवास्ते पुरस्ते तृणं तृणम् ॥ ७ ॥ मञ्जुसिञ्जानमञ्जीरं निःस्वनद्भुजकङ्कणम् । अग्रतस्ते शचीलास्यं दृश्यं धन्यस्य कस्यचित् ॥ ८ ॥ स श्लाध्यस्तुम्बुरोर्वीणाप्रपञ्चस्वरसञ्चयः । त्वद्गणाद्घोषणोत्कण्ठैयोगीन्द्रैरपि यः स्तुतः ॥ ९ ॥ कर्ममर्मभिदि श्राद्धो यः स्याल्लालाटिकस्त्वयि । असौ जायेत विश्वश्रीवक्त्राम्भोजललाटिका ॥ १० ॥ भवतोऽचिन्त्यतेजांसि बचांसि सहजान्यपि । यथाधरं यथाम्भांसि परिणाममुपासते ॥ ११ ॥ सा ते सचेतसः कस्य विस्मयाय न जायते । अवाचः कुर्वती वाणी गतिश्च भुवि कण्टकान् ॥ १२ ॥ त्वत्प्रणामकिणश्रेण्या भालभूर्यस्य सिध्मला । दन्तुरा शक्रकोटीरभाभिस्तस्यानिपीठिकाः ॥ १३ ॥ हास्यादपि भक्त्पादाः कापि तैर्वीक्षिता ध्रुवम् । दुर्नयैकनिषण्णानामपि येषां शुमोदयः ॥ १४ ॥ तवाङ्घिनखरज्योत्स्नाशिखाचूडालभूमिषु । जघालोत्कण्ठवैयात्यात् कामुकी मुक्तिकामिनी ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरो ! ऽभिराम
चन्द्रावदातचरिताश्चितविश्वचक्र !।