SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे सङ्ग्रामाधि प्रबलविलसद्वाहिनीसन्निपातोचत्कीलालाकुलितसकलप्राणिवर्गं क्षणेन । निर्मध्यान्तः सपदि बलिना भूभृता बाहुनैव श्रीकान्तत्वं दधति कति न त्वत्प्रसादामृतार्द्राः ॥ २९॥ प्रौढोत्पाता अपि विदधते.... क्षमाकम्पनाशा प्लोषप्रायाः प्रशममचिरा.... राष्ट्रेषु तेषाम् । ये निःस्यन्दीकृतनिजहृदा निःप्रकम्पक्षमं त्वा-मासावल्लीस्तवकनघनं निर्विरामं स्मरन्ति ॥ ३० ॥ स्फूर्त्तिं बिभ्रत् परशुभरतो भद्रकुम्भाधिक श्रीविघ्नश्रेणीहरणनिपुणः कोऽपि देवोऽयमेकः । श्रेयः कर्मोद्गमसमुचितारम्भसरम्भभाज स्तद् भोरेनं गमयतितमां निष्प्रमादं प्रसादम् ॥ ३१ ॥ भालं कृत्वाञ्जलिमुकुलितं सोऽहमभ्यर्थये त्वां तृष्णार्त्त वा कथयतु जनो मामथो न्यस्ततृष्णम् । यद् यत् किञ्चिज्जगति परमानन्दसम्पत्तिकन्दस्तत्तन्मह्यं वितरवितर त्वं प्रसीद प्रसीद ॥ ३२ ॥ ( १६२ ) 11 95 [ ६९ ] षोडशिकाः साधारणजिनस्तवाः। -- [ पण्डितावतंस सकलसमयोपबृंहकसमयस्थितिजन्तुमखिलतुल्यगिरं । गतपापं गतपुण्यं पुण्यकृते जिनपतिं स्तौमि ॥ १ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy