________________
सूरिविरचिता]
प्रसादद्वात्रिंशिका .
( १९१ )
नूनं नाथ! प्रथयसितरां सुप्रसन्नान्तरात्मा
संसाराब्धेरपि तटभुवः प्रापणे नैपुणत्वम् ॥ २३ ॥ सर्पदपोत्फणमभिसरनागलोकाधिराज--
स्फूर्जच्चूडाभरणधरणस्याज्ञयेव स्थिरात्मा । कालव्यालः स्थलकुवलयोल्लासलीलामुपैति
श्रीमत्पार्श्व ! त्रिभुवनपते ! त्वत्पदाम्भोजभाजाम् ॥ २४॥ कोपाटोपज्वलनजनितैस्तैः स्फुलिङ्गैरिवो?__ रक्षणां पातैः कृतदवथुभिभिल्लसैन्यनिरुद्धे । अम्भःप्राप्तिर्यदि भयभवस्वेदभूर्यत्र सत्रं
दिष्टया युष्मचरणशरणास्ते लघल्लङ्घयन्ति ॥२५॥ स्थानेवार....मजजिन ! कृपास्तन्द्रपीयूषवृष्टया
दृष्टया दिष्टया तव नृपतयस्तापनिर्वापमापुः । यस्मादेषां समुदयिसमित्सङ्गमैरुष्मलश्री
रित्रातः प्रकटदहनः शान्तिमाशु प्रपन्नः ॥२६॥ मूर्त तेजः प्रकटयति यः केसरैः स्वैः कडारैः
किञ्च स्वीयं यश इव नखैर्मुक्तमुक्ताफलौधैः । विख्यातारिद्विरदविजयः सोऽपि राजा मृगाणां
न स्याच्चित्रार्पित इव भिया जाप्रति त्वत्प्रतापे ।। २७ ॥ स्फूर्जद्दर्जिः स्फुटमदपयोवृष्टिभृचीनपिष्ट
व्यासक्रीडानिबिडतमतडिद्दन्तवल्गलाकः । मत्तव्यालः प्रलयसमयाम्भोदमूर्त्यन्तरश्री
स्तं त्वद्ध्यानाकुशितमनसां स्यात्कृतातङ्कपङ्कः ॥ २८ ॥ ११