________________
( १६० ) जनस्तोत्रसन्दोहे [श्रीरामचन्द्रश्रीवामेय ! त्वयि विहरति प्रौढरूढप्रभावे
प्रादक्षिण्यप्रवणगतयः पक्षिणः प्राग बभूवुः । तत् किं चित्रं बससि हृदये त्वं यदीयेऽधुनापि
स्यादेतस्याऽध्वनि न शकुनप्रातिकूल्यं कदाचित् ॥१९।। कारागारं विविशुरवशाः कण्ठपादप्रतिष्ठा
माबिभ्राणाः कुपितनृपतौ शृङ्खलामायसी ये। तां सौवर्णी सपदि दधतस्ते निरीयुः करीन्द्र
स्कन्धासीनास्तव जिनवर ! ध्यानबद्धावसानाः ॥ १९ ॥ मैत्री प्राप्य प्रस्टमरमरुत्कल्पितां धूमकेतु__ यः स्वं तेजः प्रथयति समित्सङ्गलब्धाधिकश्रीः । पादन्यासं शिरसि तरसा ते नदीयेऽपि कुर्यु
ये देव ! त्वाममृतमदुरं मानसे धारयन्ति ॥२०॥ स्वर्णक्षोणीधरवरशिरःशेखर ! श्रीजिनेश !
व्यक्तं सेयं परमहिमता काचिदुझम्भते वः। पुंसां पादास्थितिसमुचिता यत्तडागापगाम्भः
सम्भाराणां परमहिमता स्यादनुद्वेगहेतुः ॥ २१ ॥ दुवर्णत्वं दधदपि रसाविद्धनिःशेषधातु
श्योतत्कुष्टग्लपितवपुषां सिद्धनाथाऽधुनापि । सद्यः पिण्डं भवति विकसत्सौरभं यत्सुवर्ण
स्फूर्तिः कापि स्फुटमनवधेस्त्वत्प्रसादौषधस्य ॥ २२ ॥ तन्वन्नामस्मरणवशतः प्राणिनां पोतभाजा
मम्भोराशेर्जलभरभृतो लङ्घनं दुर्दिनेऽपि ।