________________
( १६३ )
wwwwwwww
दुरितानि हरसि जनयसि भद्राणि तनोषि मड्क्षु दिक्षु यशः । किमपरमुपनयसि शिवं त्वमेव जिन ! दृष्टमात्रोऽपि ॥ २ ॥
नृत्यत्पुरन्दरवधूसिन्दूरपरागपिञ्जरदिगन्तम् ।
श्रीरामचन्द्रसूरिकृताः ] साधारणजिनस्तघाः
तव समवसरणमशरणशरणं शङ्केऽस्मि न गतोऽहम् ॥ ३ ॥ अपविस्मयविगतस्मयविश्वत्रयरूपदर्शनादर्श ! गिरमिव सर्वपथीनां न दृष्टवानस्मि तव मूर्त्तिम् ॥ ४ ॥ पुरुहूतपाणिसञ्चार्यमाणकनकाम्बुजा विश्रान्ता |
न सुविन वियति गतिर्या तव समजनि सा न मे साक्षात् ||५|| तव पथि वितमसि विरजसि सच्छाये सामृते महासरले । अपरपक्षाधिगमकरे कृतवानहमीश ! नास्मि पदम् || ६ || आजन्मरुचां रुचिधाम गुरुतिरस्कारसारभारखनिः । दुःखग्रामकुटुम्बी त्रातस्तेनाऽस्म्यहं जातः ॥ ७ ॥ लङ्घयति यस्तवाज्ञामात्मन्ययमीश ! वैरमुद्वहति । यः स्वात्मन्यपि वैरी कृपालुरन्येषु स कथं स्यात् ॥ ८ ॥ लक्ष्मीप्रभवे पुरुषोत्तमाश्रये सत्वधाम्नि निस्ताघे । यस्तव समयोदन्वति मज्जति स परं व्रजति पारम् ॥ ९ ॥ जम्भारिचक्रकृतसेव ! देवदेवस्त्वमेव खलु विदुषाम् । ये पुनरपरे देवास्ते देवाः कष्मलमतीनाम् ॥ १० ॥ तव वचनसुधारसपानपावनी भूतकर्णपथकुहरः । कलुषविषगर्भिताभिर्मुह्यति को वाग्भिरपरेषाम् ॥ ११ ॥ अमरासुरनरलक्ष्मीः सौभाग्यं वहति तावदेवेयम् । भवदुपदेश कर्णैर्न वीक्ष्यते चापलं यावत् ॥ १२ ॥