________________
प्रस्तावना।
" सक्कयभासाबद्धो गंभीरत्थो थओ त्ति विक्खाओ । पाययभासाबद्धं थोत्तं विविहे हिं छंदेहिं ।। ८५१ ॥"
(चेइयवंदणभासे शान्तिसूरिः।) अद्यावधि समुपलब्धेषूपलभ्यमानेषु च स्तोत्रादिषु प्रायशो व्यभिचरन्ति लक्षणान्यमूनीति मे मतम् । 'चूलिकास्तुतिस्तोत्रापेक्षया स्यादियं रूढिः '
सर्वेष्वपि प्राचीनतराः पश्यन्तेऽन्वहं जैनसमाजे प्रतिक्रमणादिक्रियाविशेषेषु दण्डकरूपाः स्तवाः पञ्च, तथाहि
सक्कथओ य चेइयथओ य चउवीसईथओ चेव । सुत्तत्थओ य सित्थत्थओ य नामाइं दंडाणं ॥
एषामेवावश्यकवृत्त्युत्तराध्ययनादौ क्वचित् स्तवत्वं क्वचिच स्तुतित्वं समुपलभ्यते तद् व्युत्पत्तिमेवाश्रित्य यद्वा गोबलिवर्दन्यायमनाश्रित्य सामान्येन ।
प्राचीनभाण्डागारगवेषणोपलब्धानि जैनाचार्यप्रणीतानि स्तोत्रादीनि सङ्ग्रह्य प्रयत्नेन प्रकरणरत्नाकराख्यपुस्तकस्य विभागचतुष्टये प्रकटीकृतानि श्रीमता भीमसिंहमागकाख्येन श्रावकेण पूर्वम्। ततः परं बनारसस्थया श्रीयशोवियजीजैनग्रन्थमालया कानिचित् जैनस्त्रोत्रसङ्ग्रहस्य विभागद्वये, तदन्तरं महिसानस्थेन जैनश्रेयस्करमण्डलेन कतिचित् जैनस्तोत्ररत्नाकरस्य विभागद्वये, तथापि नैकविद्वद्वरविरचितान्यमूल्यरत्नप्रायाणि कीटककोटीमुखविवरगतानि विनाशोन्मुखानि जीर्णशीर्णान्येतावन्ति समुपलभ्यन्ते स्तोत्रादीनि यानि सर्वाणि प्रयत्नपूर्वकमेकीकृत्य यथामति संशोध्य प्रकटीक्रियन्ते चेत्