________________
(२)
जैनस्तोत्रसन्दोहे। अभयदेवसूरिविरचिता वृत्तिः
ज्वरशमनादीनि ज्वरापहारप्रभृतीनि, आदिशब्दाच्छूलशमनादिप्रहः । रत्नानि-माणिक्यानि, अज्ञातगुणान्यपि-रोगिभिरविदितज्वरादिशमनसामर्थ्यान्यपि, न केवलं ज्ञातगुणान्येव । तान् ज्वरादिरोगान् शमयन्ति यथा-येन प्रकारेण सुन्दररूपतालक्षणेन कर्मज्वरादिरोगान्-स्तुत्यादीन्यपि-स्तुतिस्तोत्राण्यपि न केवलं रत्नान्येव । 'तह ' इति अत्रोत्तरस्यावधारणार्थस्य तुशब्दस्य सम्बन्धात् तथैव-तेनैव प्रकारेण । किम्भूतानि स्तुत्यादीनि ? भावरत्नानिपारमार्थिकमाणिक्यानि, शमयन्तीति प्रकृतम् ॥" ___ स्तुतयः, स्तवाः, स्तोत्राणि चैते त्रयोऽप्येकार्था एव व्युत्पत्तेः रूढेश्च तथापि ज्ञायतेऽमीषां लक्षणवशात् कश्चिद् विशेषः । तथाहि
" तत्र स्तवा देवेन्द्रस्तवादयः, स्तुतय एकादिसप्तश्लोकान्ताः, यत उक्तम्-एगदुगतिसिलोका (थुइओ) अन्नेसिं जाव हुंति सत्तेव । देविदत्थवमादी तेण परं थुत्तया होति ॥"
(उत्तरा. शान्तिसूरीया वृत्तिः) " एगदुगतिसिलोया थुतिओ अन्नेसि होइ जा सत्त । . देविंदत्थयमादी तेणं तु परं थया होइ ।।"
(व्यवहारभाष्ये उ० ७, गा. १८३) मलयगिरिकृता वृत्तिः
एकश्लोका द्विश्लोका त्रिश्लोका वा स्तुतिर्भवति । परतश्चतु:श्लोकादिकः स्तवः । अन्येषामाचार्याणां मतेन एक लोकादि : सप्त लोकपर्यन्ता स्तुतिः । ततः परमष्टश्लोकादिकाः स्तवाः । यथा देवेन्द्रस्तवादयः । आदिशब्दात्-कर्मस्तवादिपरिग्रहः ।" " गंभीरमहुरसदं महत्थजुत्तं हवइ थुत्तं " ॥ ५८ ॥
( चैत्यवन्दनभाष्ये देवेन्द्रसूरिः)