________________
mmmmmmmmmmmmm mrrormwwwr
सूरिविरचिता] प्रसादद्वात्रिंशिका
(१५७) धन्याः सिद्धिप्रणयिनिपुणा (१) नर्थ्यरत्नत्रिकामा
भावं लब्ध्वा दधति यदहो विश्वलोकाग्रभूषाम् ॥१॥ संसाराब्धौ प्रकृतिविषमावर्त्तदुद्देशमूर्ती
श्रेयः किञ्चित् कचन भविनां यत् कदाचित् कथञ्चित् । निःसन्देहं तदिह भुवनामेय ! वामेय ! देव !
त्वत्पादाब्जप्रणयकणिकाक्रीडितानां विवर्त्तः ॥ २ ॥ संभेदेन असमरनिजस्रोतसां तीर्थभूताः ___ क्रीडापूताखिलवसुमतीमण्डलाः केऽप्यमोघाः। मोक्षाय स्युर्भुवि तनुभृतामाश्रितानां यदेषां
योगीश ! त्वचरणयुगलीपांशुसंसर्गलीलाः ॥ ३ ॥ यज्जिह्वाग्रोज्झितजललवासङ्गतः कुष्टशान्ति
र्यन्मूत्राम्भ:परिमलतया हेमतामेति लोहम् । अक्षीणत्वं दधति निधयो यत्करन्यासयोगात्
त्वद्योगश्रीपरिचयमृते तादृशस्ते कथं स्युः ॥ ४ ॥ यद् गाहन्ते तरणिकिरणालम्बनेनाम्बराग्रं ___ यद्वर्षास्वप्यसलिलजुषः मातले सञ्चरन्ति । मध्येज्वालागहनदहनं यत् समाधि दधन्ते
धन्याः केचित् तदखिलमदः खेलितं त्वत्प्रसत्तेः ॥५॥ अन्तःक्रीडाविपिनवसुधं बद्धकेलिक्रमो यत्
यत्सन्मुक्ताप्रकरमरजः पुष्पवर्ष दधानः । स्वःश्रीसङ्गं प्रथयति हरिः साप्सरः सनिधानः
स्वामिन् ! सोऽयं लवणिमकणस्त्वत्पदद्वन्द्वभक्केः ॥६॥