________________
सन्यिविरचिता] भक्त्यतिशयद्वात्रिंशिका
वितन्वती कामपि कामपुष्टिं तुष्टिं नयन्ती कृतिनां मनांसि । त्वत्पादसेवादव) जिनेन्दो ! युक्तं निकृन्तत्यमृतैकहेतुः ॥ १४ ॥ दुःस्थात्मनोऽस्याः कलिकालसिन्धौ रूपान्तरेणोद्धरणे धरित्र्याः। जगत्पते ! श्रीपुरुषोत्तम ! त्वं गदाधरत्वं किरसीति युक्तम् ॥ १५ ॥ दुःकाललीलायितदुःस्थलोककल्याणसम्पत्तिपवित्रसत्रम् । सुवर्णगोत्रे तिलकः स कोऽपि सद्वृत्त ! भासम! चिराय जीयाः॥१६॥ कामान् निकामं तनुताजनानां पतिर्जिनानामविपन्नगाङ्कः। नावन्ध्यचक्षुर्मुदमाप वीक्ष्य यत्तीर्थलक्ष्मीमविपन्नगाङ्कः ॥ १७ ॥ कृतार्थतां नाथ ! समेत्य तावदशेषसत्वेषु वहरयुपेक्षाम् । त्वद्भक्तिकल्पद्रुमकन्दलीयं तदप्यहो यच्छति वाञ्छितानि ॥१८॥ एकातपत्रा जिन ! शासनश्रीर्जाताऽधुनेयं भवता जिनेश !। तच्छायया स्वास्थ्यजुषां जनानां भवोऽस्तमभ्येतु स तापहेतुः॥१९॥ रत्नार्चिरुन्मनरिभङ्गियोगिफणौघपर्ण मुमनोचिताङ्गम् । गाङ्गेयभूभृद्भुवि सुप्रतिष्टं श्रीपार्श्वकल्पद्रुममाश्रिताः स्मः ॥२०॥ देव ! त्वदीयं वदनं विलोक्य कृतार्थतां मेऽद्य दृशौ प्रपन्ने । धत्तः समस्तेन्द्रियमण्डलेऽपि बाप्पाभिषेकस्फुटराज्यलक्ष्मीम् ॥२१॥ सन्तापकेऽस्मिन् भवधर्मकाले तव प्रणामावसरे ममाघ । भालस्थलेऽजायत भूरजोऽपि सत्कन्दलः पुण्यकदम्बशाखी ॥२२॥ त्रातस्तवान्री शरणं श्रितस्य ममाङ्गतः सम्प्रति निःसरन्तु । धर्मार्पितं द्वारमवाप्य साक्षाद् भियाऽन्तरङ्गा इव कण्टकास्ते ॥२३॥ संस्नाप्य पञ्चामृतपूर्णकुम्भैर्भवन्तमभ्यर्चनमल्लिकाभिः। स्वामिन् ! मयात्मा विमलीकृतोऽयं चित्रं त्रिलोक्यां सुरभीकृतश्चा२४।