________________
annannnnnnnnnnnnnnnnn
-
(१५४) जनस्तोत्रसन्दोहे [:श्रीरामबद्रमहीभृतोऽमुष्य महाप्रभावः प्रासादयस्तिलकीमवंस्ते । नेत्रातिगे मेरुगिरौ व्यनक्ति युक्तं सुवर्णाचलराजलक्ष्मीम् ॥३ ।। मात्राधिकश्रीभवत्ता सनाथः प्रासाद एष प्रभुपार्श्वनाथ ! सतां हृदि स्फूर्तिमियति चेत्तदन्तः प्रविष्टस्तव स प्रसादः ॥ ४ ॥ त्वम्बिस्त्नाञ्चितचूलदण्डं नीलं नभश्छत्रमुपर्यवाप्य । व्यनक्तु साम्राज्यमयं जिनेश ! निःशेषशैलेषु सुवर्णभूभृत् ॥५॥ धुलोकलक्ष्मीप्रणयं परत्र कल्याणमत्रापि च दातुकामः । शङ्के प्रभोऽभ्रंलिहचारुचूलं चामीकरमावरमध्यरोहः ॥ ६ ॥ रक्षोरगासङ्गतिरङ्गिताङ्गः प्रोत्सर्पदित्यदभुत्तवृत्तभूमिः । त्रिलोकलक्ष्मीनिधिकुम्भशोभां बिभ्रत् प्रभो ! पार्श्व ! पुनासि विश्चम् ॥७॥ निरूपितं तावकमुख्यरूपं जायेत सिद्धयै खलु युक्तमेतत् । दृष्टा जिनेन्द्र ! प्रतिमापि यत्ते धत्ते परेषामुपकारमेषा ॥ ८ ॥ त्वं नन्दतात् पार्श्व ! चिरं शरण्यशिरोमणिः कश्चन यद्दवासि ! जनस्य निःशेषभियां भियेव पलायनायोरगमुत्तमाओं ॥ ९ ॥ श्रीपार्श्व ! पुन्नाग ! विपन्निरासव्रतं यदात्तं भवता पुराऽभूत् । अद्यापि जागर्ति तवाहतं तन्महाशया हि प्रतिपन्नसाराः ॥१०॥ जिनाधिनाथ! प्रतिमा यथा ते कल्याणजन्माकरतां दधाति । चामीकराद्रिप्रतिमस्तथैष मन्येऽस्ति जाबालिपुराचलोऽपि ॥ ११ ॥ सङ्क्रान्तसिद्धोज्ज्वलसंविदेव निष्पादितं सिद्धशिलादलेन । त्वदीयमेतजिनचन्द्र ! बिम्बं ज्योतिर्मयतेन चमत्करोति ॥१२॥ श्रीअश्वसेनक्षितिभृत्कुमार ! सुवर्णधात्रीधरमौलिरत्न !। अमोघवाचस्तव पार्थिवत्त्वं सम्प्रत्यनन्धप्रतिमं चकारित ॥ १३ ॥