________________
सरिविरचिता] भक्त्यतिशयद्वात्रिंशिका (१५३) निषिद्धलोलाविहितार्थविद्विषोऽसमञ्जसज्ञानकरालचक्षुषः । उपेक्षिताश्चेद् भवताऽपि मादृशास्ततो भवेयुर्विपदां कुटुम्बिनः ॥२३॥ प्रसाध्य ते शर्म हठेन देहिनो निकृत्य जिवातु जिनेन्द्र ! को न यः। पलादमुख्यैः स्वपरौ मुखाध्वना तदप्यगाधं प्रतिलम्भितौ तमः ॥२४॥ इदं कृपापात्रमतल्लिका जगद् भवान् पुनर्विश्वकृपालुकुञ्जरः ।। तदौचितीं स्वस्य परस्य चिन्तयन् प्रतिक्रियां कामपि कर्तुमर्हसि२५ तथा त्वया तत्त्वमधीश ! सूत्रितं यथा सुरश्रीरपि भाविविप्लवः । ततः श्रुतेर्वम॑नि भोगसाधने कियत् प्रवृत्तं अहिलेन्द्रियं जगत् ॥२६॥ पराशयेभ्यः परभागवासिनः स्थितिक्रमाः सन्तु परेऽपि लक्षशः । अखण्डवृत्त्या बत तत्वपद्धतेर्जिनेन्द्र ! सन्तः कृपयैव विस्मिताः॥२७॥ नवं नवं धाम नवा नवा रुचिर्नवो नवो वैभवगौरवोदयः । तव प्रसाद प्रणयाञ्चितात्मनां नवं नवं शम नवा नवा रतिः॥२८॥ कियद् यशो धाम कियत् कियन्मही रसात x x x x
[ ५९ ] भक्त्यतिशयद्वात्रिंशिका ।
एकातपत्रामिव शासनस्य लक्ष्मी दधानः फणभृत्फणाभिः । आरूढ जाबालि'पुरादिहस्ती श्रियेऽस्तु वः पार्श्वजिनाधिराजः ॥१॥ सर्वज्ञ ! विज्ञप्यमिहास्ति यत्तन्न वेदनातीत ! भवान्न वेद । तथापि माध्यस्थ्यमिदं त्वदीयं किमप्यहो मां मुखरीकरोति ॥२॥