________________
( १५२ )
जैनस्तोत्रसन्दोहे
[श्रीरामचन्द्र
महर्द्धयो यस्य विषेण पूर्णिताः स्मरन्त्यकृत्यानि न ते हरादयः । अमुष्य कन्दर्पसदर्पभोगिनस्त्वमेव नाथ ! ध्रुवमाहितुण्डिकः॥१३॥ कुटुम्बभाजां विषयार्त्तचेतसां कुतीर्थिनां वृत्तिमवेक्ष्य पेशलाम् । जनो जडः स्निह्यति कामकर्मसु क्रियां हि सर्वोऽप्यनुयाति शासितुः१४ ररक्ष पारापतमात्तसाध्वसं यदात्ममांसैर्नृपतिर्भवन् (१) भवान् । कृपालुतां ते भुवनेषु घोषयन्नयं न विश्राम्यति कीर्तिडिण्डिमः॥१५॥ त्रिधानिरुद्धाखिलभूतविप्रियाक्रियासु वृत्तिर्यदि नाम दुष्करा । हितैषिणो नाथ ! मनीषिणः पथा तथापि ते मुक्तिपुरी यियासवः१६ जिघांसितारं महितारमेकतो दृशाऽभिषिञ्चन् करुणार्द्रपक्ष्मणा । विशेषदृष्टिं स्वपरेषु हेलया प्रशासितारं जितवान् न किं भवान् ।१७ यमर्थयन्ते मखकल्मषैः परे शतक्रतुश्रीपरिरम्भणोत्सवम् । स एव ते वाक्यसुधासुमेधसां विभाति हालाहलतोऽपि दुस्सहः १८ अवाप्तनिर्वाणमतापनोदयं निरञ्जनं स्नेहनिरासभास्वरम् । प्रदीपमेकं जगतां विपश्चितः श्रयन्ति के त्वां न तमोजिघांसवः ॥१९॥ तपश्च तीव्र विषमश्च संयमो द्वयं त्वया देव ! शिवाय पश्यता। कुशावलम्बन शिवाधिरोहिणः परे कृताः कस्य न हास्यभूमयः॥२०॥ रहस्यधाम्नां विपदामथोम्मिभिर्न ये विषीदन्ति विगीतकर्मसु। अवाप्य ते त्वामपि देवदेवतं चिरं सहिष्यन्ति चतुर्गतिक्तमान् ॥२१॥ तव प्रणीतेरनुकूलमाचरन्निहैव लोकः शुभमश्नुते फलम् । तदप्यगाधैः स्थगिताः कुकर्मभिर्भवत्प्रतीपं विचरन्त्यमेधसः ॥२२॥
* दण्डम् ।