________________
सूरिविरचिता] श्रीशान्तिवार्निशिका क्लमानुविद्वेषु भिदेलिमेषु च स्पृहा कुतो वैषयिकेषु कर्मसु । भवद्वचःप्रीतिपिलीत (न)चेलसः पदे परेऽपि क्रमशो विसशिषः ॥३॥ यदि प्रभावो व्यसनापशान्तये विचेतनानामुपलास्थिवीरुधाम् । अनश्वरज्ञानमयस्य किं ततो न ते प्रभावः प्रभविष्णुरापदः ॥४॥ कुतीर्थिनां वापि कृतार्चि(र्थिीता गिरः कचित्तु जीवानुविघातपिच्छिलाः। त्रिलोकलोकाभयदानदीक्षिता जिनेन्द्र ! सर्वत्र तु सूक्तयस्तव ॥५॥ प्रतीपमेतां भवकृत्यनिम्नगां विगाढमाजीक्तिवृत्ति यः क्षमः । प्रवेशतीनामघसानशीतलां स एव वीथीं तव यातुमर्हति ॥ ६ ॥ गिरं परेषां भवतन्त्रसूत्रणी कृताञ्जलिः को न शणोति सोत्सवः । वचः पुनस्ते भवतन्त्रसूदनं सकामधीरुद्विजते ततस्ततः ॥ ७ ॥ न विस्मयोऽसौ यदमी सुधाभुजो भुजिष्यतां यान्ति नदीष्णचेतसः। स विस्मयो यद्विनमन्ति ते रवयं विवेकदुःस्था अपि मेदिनीरुहः॥८॥ विसम्पदो ये सरुजश्च ये पस्तिरस्कृता ये न च ये सुमेधसः । स्मृता न हास्यादपि नाथ ! तैर्भवत्पदद्वयी जातु युगान्तरेवपि॥९॥ न कौतुकं यद् भवतोऽपि शासनाद् गानाः पराञ्चो जगदीश ! कोटिशः गरीयसी सा ननु भाग्यभूमिका यया त्वमीशो भगवानकायसे॥१०॥ महौजसश्चेत् अलयप्रसादयोस्तथा सतां काममधीश्वराः परे । अरोषतोषः परमार्थदृश्वनां त्वमेव देवः शिवकाक्षिणां पुनः ॥११॥ प्रिया प्रपामश्रमखिनमौलयः परे क च त्वं च च वीतविप्लवः । भवन्निरासेन भवेच्छिवार्थिनस्तथापि तान् केचिदुपासते जडाः॥१२॥
. भवच्छिदार्थिनः