________________
( १४८ )
जैनस्तोत्रसन्दोहे
[ श्रीरामचन्द्र
तपोभिरुग्रैः करणोपरोधनैर कृत्रिमैरादधतस्तव स्थितिम् । विपश्चितः के न भवन्ति हेतुना सचेतसोऽपि प्रविलीनचेतसः || ८ || तमः प्रणष्टामलदृष्टिवर्त्मनि प्रबद्धमिधे (1) प्रभवद्भि कर्मणि । वेरिवोन्मीलितभाववैभवस्तवावतारं जिन ! भारतेऽभवत् ||९|| तवांघ्रिसेवारसिकैः कुटुम्बितामिह प्रपन्नैरवनौ सुरासुरैः । कृताश्चिरं यामिकमात्रदेहिनो (त) रसातलस्वर्गनिवासिनो ग्रहाः ॥ १० ॥ अमुं प्रमध्नन्ति न ये जडाविलं तवाध्वमन्थेन भवोदधिं बुधाः भवन्ति सर्वेन्द्रियशान्तवेधसो न ते नवीनाऽमृतसम्पदां पदम् ॥ ११॥ निवासमर्हन्ति न ये महोदधे (?) मलीमसा मुक्तिपुरे वपुः स्पृशः । कृता भवग्रामतलेषु ते त्वया विपन्नृपाणां करदाः कुटुम्बिनः ॥ १२ ॥ महांहसां दुर्नयशूरचेतसां विमोहमूर्द्धालुदृशां च मादृशाम् ।
शरण्य ! को नाम सकर्णमानसो ध्रुवं त्वदन्यः शरणं भवे भवेत् ॥ १३ ॥ बृहन्न किञ्चिद् गगनाङ्गणात् परं न चाऽपरं मुक्तिपदात् प्रियङ्करम् । न बीजमन्यद् व्यसनस्य कामतः परो न कचिद् भवतो यथार्थवाक् १४ अहंयवो ये किल रोषतोषजैः परे प्रबन्धै रिपुमित्रवार्द्धभिः । उपासितैस्तैर्मनसापि मादृशाश्विरं त्रपन्ते तव किङ्करा अपि ॥ १५॥ बसुन्धरामक्ष्नुवतां नृपार्चिता भवन्तु शास्त्रैरपि सन्तु विश्रुताः । सुखोन्मुखे चेत् पथि सोत्सवाः परे तदा भुजिष्यैस्तव मादृशैर्जितम् १६ अखण्डिताखण्डलवन्दितश्रिया त्वया त्यजन्तः सह साम्यविप्लवम् । सुधामयीं तामपि मुक्तिभूमिकां मनीषिणो न स्पृहयन्ति चेतसि ॥ १७ ॥ त्रिलोकरक्षाभिरिहाभिमन्त्रितः प्रियङ्कराभिस्तव सूक्तिपङ्क्तिभिः । दृढानुबन्धैरपुनर्ग्रहं ग्रहैश्चिरं गृहीतोऽपि न कोऽपि मुच्यते ॥ १८ ॥