________________
सूरिविरचिता] श्रीयुगादिदेवद्वात्रिंशिका .
(१४९)
mmmmmmmmmwww
wwwwwwwwwwwwwwwwwww
व्रतं विहाय स्पृहयन्ति ये श्रियं व्रजन्ति ते पूज्यतमा परे दशाम् । त्वया पुनर्देव ! विभुञ्चतां व्रतं स्थितिः प्रक्लप्ता मलिनानुरूपिणी॥१९॥ तदेव नास्त्यस्ति तदेव चेत्ययं चलाचलस्ते वचनस्य डम्बरः । शिवाय कस्याप्यशिवाय कस्यचिन् मुदेऽथ कस्याप्यमुदेऽथ कस्यचित्२० अमुत्र यत् किञ्चिदचिन्त्यवैभवं सनातनं शर्म न तत्र साक्षिणः । इहापि गच्छंस्तव देव ! वर्मना भवत्यवाच्यस्य न भाजनं जनः ॥२१॥ गुणैकरूपा गमभङ्गशालिनी चकास्ति येयं तव वाक्यवागुरा । स एव दूरं विनियन्त्र्यते न या य एव बन्धैरचिराय मुच्यते ॥२२॥ प्रसीद सीदन्तममुं जगज्जनं नियोजय कापि महार्थकर्मणि । क्षमाभृति त्वय्यपि शासति प्रजामजातदैन्याः कथमीश ! नाङ्गिनः॥ क्रतुक्रियाभिर्विषयोपदेशनां निशम्य वाचो हृदयङ्गमा जनः । विरोधिनीवैषयिकस्य शर्मणः क एव ते सूक्ष्मगिरोऽनुरुध्यते ॥२४॥ विशृङ्खलैोऽमृतपोऽपि लज्जते प्रियाप्रणामप्रमुखैविकर्मभिः । परां परेतैरपि यान्ति पूज्यतामहो विमोहान्धलमानसं जगत् ॥२५॥ प्रसादमासाद्य कुतौर्थिनां जनः स लाघवोऽपि ध्रुवमेत्य गौरवम् । तव प्रासादा (न्) न पुनर्मुहुर्मुहुः स गौरवोऽप्यञ्चति लाघवं परम्२६ अकल्पवृक्षा विबुधप्ररोहिणी विशीर्णदोषा गुरुराजराजिनी । समुत्थितज्योतिरकृष्णवमिका त्वयि प्रभो ! सारतभूरभूदियम्॥२७॥ शुभाशुभं बाह्यमथान्तरं भवत्प्रणीतसंवादि विलोकयन्नपि ।। प्रशान्तिवन्ध्यैर्ग्रहिलाभिरुक्तिभिः प्रतार्यते पश्य परैः कथं जनः।।२८॥ सतां न तत् कौतुकमस्तु विप्लुते यदेष भूयास्तव गौरवोदयः । कृपाद्विषः कामजुषः परां परे यदञ्चितिं यान्ति तदेव कौतुकम्।।२९॥