________________
(१४६) जैनस्तोत्रसन्दोहे [ श्रीरामचन्द्र प्रौढप्रतापोष्मभृता प्रभो ! त्वया मिथ्यादृशां कापि कला व्यलीयत । उद्दामधाम्ना हि निदाघभानुना दीर्घ न नीहारशिलावतिष्ठते ॥२१॥ त्वां देवः सन्त्यज्य कलौ जनोऽन्वगान्मुण्डावलीमण्डनमन्यदैवतम् । प्रायो रजःपर्वणि भूतिराजितं के नैव राजानमनुव्रजन्ति वा ॥ २२ ॥ रागो गलत्येव मनोगतः सतां नीरागवैराग्यरसोक्तिभिस्तव । विस्रसमेवाश्रयते यदैन्दवैः शेफालिकानां कुसुमोत्करः करैः ॥ २३ ॥ मौलौ तवाऽयं शमधातुवादिनः फुल्लत्फणास्फारमणीरुचारुणः । विश्वस्य कल्याणकृते प्रकल्पते स्यान्नागरगो हि महार्थसिद्धिकृत् ॥२४॥ स्याद्वादमुद्राभ्युदयाद्भुतप्रदं लोकेश्वर ! त्वं नयवादमादिशः। न्याय्यस्थितिं बिभ्रति वा प्रजापतौ किं दुर्लभा स्याजयवैजयन्तिका १२५ त्वं पालयस्येव विलीनमत्सरः स्वामिन् ! विपक्षादपि संसृतं जनम् । निश्छद्मसम प्रणयी महाशयैः पुत्रोऽपि शत्रोरपि रक्ष्यतेऽथवा ॥२६॥ कामान् सदा ध्यानवतां फलल्यहो श्रीपार्श्वनामस्मरणादरस्तव । यत् सिद्धमन्त्रेण समस्तसिद्धयः प्रादुर्भवन्तीह कुतूहलं न तत् ॥२७॥ त्वद्वीक्षणेन क्षपिते रजस्यहो व्यञ्जन्ति बाष्पं प्रमदस्पृशां दृशः । अभ्युद्धते धूलिभिरेव हन्ति किं न श्रोतसां सैकतभूमयः पयः ॥२८॥ ज्योतिर्मयत्वं हरसे हृदि स्फुरनन्हाय मोहें खलु निर्मलात्मनाम् । बद्धास्पदो ह्यभ्रकमन्दिरोदरे दीपाङ्कुरः कुड्मलयत्यलं तमः ॥२९॥ उल्लाञ्चयत्यापदमाश्रितः सुख त्वत्पादसेवारससुस्थमानसः । द्वैपं पयः प्राप्य पतिं हि यादसां सांयात्रिकः को न तरत्यमाकुलम् ॥३०॥ कारुण्यपीयूषपयःस्पृशा दृशा सम्भावय स्वं शठमप्यमुं जनम्।' वात्सल्यताच्छिल्यनिधे! प्रसीद मे न स्यात् कुमाताहि भवेत् कुजातकम् ३१