________________
सूरिविनिर्मिता] स्तुतिद्वात्रिंशिका (१४५ ) ज्योतिर्मयाव्याजतनौ जिन! त्वयि प्राप्तेऽस्तु दूरे न तु दैवतं परम् । हस्तस्थितिं बिभ्रति रत्नकङ्कणे किं दर्पणेनाऽपितभस्मकान्तिना॥१०॥ यत् किञ्चिदूचुश्चतुरं परेऽप्यसौ देवाधिदेव ! प्रभुता तव ध्रुवम् । सा स्वामिनः कापि किल प्रगल्भता सौभाग्यमायान्त्युपजीविनोऽपि यत् ११ दुर्वारभावारिपराबुभूषया निर्मूलितं नाथ ! बलान्मनस्त्वया । आक्रम्य सम्यक्ष (१) णे यतः क्षितेः कौतस्कुती स्याद् द्विषतां समुन्नतिः १२ त्वत्पादपद्मद्वयसौरभोर्मयः कुर्वन्त्यकल्याणघटाविघटनम् । गन्धे हि वा केसरिणः प्रसत्वरे स्युः कान्दिशीकाः किमु नाम न द्विपाः१३ निःकाञ्चनत्वं कलयन्नपि प्रभो ! मध्यस्थभावेन मनो घिनोषि नः । दारिद्यमुद्रामुदरं ददद्यतः क्षामोदरीणामधिकं न कि मुदे ? ॥१४॥ मूर्तिर्जिनेन्दो ! तब दारुणोष्मणः पीयूषवर्षेण पुनाति देहिनः । ज्वालाजटालास्तपनोपमान्न किं ज्योत्स्नाम्भसा शीतलयत्यहो शशी १५ श्रेयः फलत्येव महाभयागमक्लान्तात्मनामप्यनुचिन्तनं तथा । मूढातानां हि निरीक्षणं क्षणात् किं नाम नामोघमहो रवेर्भवेत् ॥१६॥ सन्त्येव भूयांस्यधिदेवतान्यहो नैतानि तु त्वं जिन! सर्वकामदः। भूयस्तरैः स्यात् तरुभिः स कल्पितः श्रीस्थूललक्षः किमु कल्पपादपः१७ हित्वा प्रभो ! त्वां प्रविजृम्भिवैभवं मुग्धः परं ध्यायति देवतां पराम् । सन्त्यज्य चिन्ताफलमीप्सितप्रदं सस्याधिदेवी श्रयते कृषीबलः ॥१८॥ काङ्क्षामि लक्ष्मीमपि नान्यदैवतात् तत्तः समीहे जिन ! दुःस्थतामपि। स्यादुर्जनान्नेह महेभ्यता मुदे दारिद्रयमुद्रापि शिवाय सज्जनात्॥१९॥ लोकोत्तरः कोऽप्यसि देवदेव ! तत् कस्ते महिम्नः कलने प्रगल्भताम् । को वा दवीयःस्थमहामहीधरोत्सेधं परिन्छेत्तुमतुच्छसाहसः ॥२०॥