________________
(१४४)
जैनस्तोत्रसन्दोहे [श्रीरामचन्द्र[ ५६ ]
जिनस्य दृष्टान्तगर्भस्तुतिद्वात्रिंशिका।
दृष्टान्तभूमिः किमिवाऽस्ति वस्तुतो स्वर्भूर्भुवोऽनन्यसमानवैभवम् । तेन स्तुति कल्पयितुं तथापि यत् प्रागल्भ्यमभ्येमि कला तवैव सा॥ विश्वेश ! विश्वज्ञ ! तव प्रसादनादैन्यो विशुद्धासु ममात्र का त्रपा । अभ्युन्नतेऽम्भोमुचि दीनवक्त्रकः किं चातकः कूजति नाऽमृताशया? ॥ स्वामिन् ! न संसारमिमं दुरुत्तरं मन्दोऽपि मन्ये त्वयि कामवर्षिणि। सत्सार्थवाहं प्रतिपद्य हेलया दुःस्थोऽप्यतिक्रामति वा महाटवीम् ॥३॥ श्रीवीतराग ! त्वयि मे प्रभौ सति स्वान्तं क हृत्वा विषयैः स्फुरिष्यते। प्रावीण्यपुण्ये पदिकेऽनुगत्वरे किं वा प्रगल्भ्येत सलोपत्र दस्युभिः ॥४॥ मीमांस्यमानं जगदीश ! शासनं चेतो हरत्यामुखदुर्गमं तव । सञ्चय॑माणो ह्यसकृन किं सतां पुष्णाति रागं खदिरः कटुर्मुखे॥५॥ सन्त्येव देवास्त्वमिह क्षितौ पुनः कल्याणकन्दः सुमनोमनोहरः। भूमीभृतस्ते कति नाऽश्मराशयः सैकः परं कश्चन काञ्चनाचलः ॥६॥ शान्तामुदात्तां च जिन! त्वदाकृतिं दृष्ट्राऽऽर्द्रतांकः कठिनोपि नो भजेत् । मूर्त्या सुधास्निग्धतनोः कलानिधेनिःष्यन्दमिन्दोदृषदोऽपि बिभ्रते ॥७॥ पादौ तवाऽऽसाद्य गुरो ! क्षमाभृतां विश्वं मनो मे न तृणाय मन्यते । उत्तुङ्गधात्रीधरशृङ्गसङ्गतः सर्वं हि खर्व मनुतेतरां न क: ॥८॥ त्वद्गोः प्रबन्धे त्रिजगद्वितेऽप्यहो मोहव्यपोहो न भवाभिनन्दिनाम् । विश्वप्रकाशवतभाजि भास्करे किं मान्द्यमास्कन्दति कन्दरातमः? ॥९॥