________________
सूरिविरचिता] जिनस्तुतिद्वात्रिंशिका . (१४३) आशाकरीन्द्रकरणिं दधदश्वसेनगोत्रोद्भवः स भवनीरधितीरधामा। चातुर्यतश्चरणजादलयन् रजांसि जीयात् क्षमाधरणनित्यधुरीणवृत्तिः ॥२४॥ नीलोत्पलन्ति सुरलोकसदा शिरस्सु भालाङ्गणेषु मृगनाभिविशेषकान्ति । प्रोदश्चिकूर्चचिकुरन्ति मुखेषु यस्य पादविषः फलतु सैष मनीषितानि ॥ रूपं च रूपमिव यस्य हृदि क्षमा च भाति क्षमेव करुणा करुणेव सा च । स्वस्मिन्नसंशयसमाप्तनिजोपमानः पार्थः स पार्श्व इव विश्वजनं पुनीताम् श्रेयोलताः स्तबकितास्तनुतां सदैव कान्तिः कलिङतनयैव यदङ्गयष्टेः । तत्त्वोपदेशविकसद्दशनांशुगङ्गासगान कस्य कृतिनः शिवमाततान ॥२७॥ वैरायमाणकमठोल्बणदृष्टिसृष्टौ छत्रीभवद्भुजगराजफणासमाजः । शालस्तमाल इव बालदलप्ररोहचेतोहरस्थितिररोचत यः स वोऽव्यात् २८ त्रैलोक्यमाङ्गलिकभूप इवेन्द्रनीलप्रोन्मीलदंशुचयमेचकितः स पार्श्वः । चूलावलम्बिसहकारलतानुकारात्फुल्लपन्नगफणः फलतु श्रियं वः ॥२९॥ पायादपायसरितः परितस्तमालबालप्रवालरुचिराङ्गरुचिर्जिनो वः । विभ्राजते भवमहाजलधौ जनानां यः सेतुदण्ड इव शैवलजालनीलः ३० कल्याणभूधरविभूषण! तीर्थलक्ष्मीमल्लीमयैकमुकुटे शशिशुभ्रधाम्नि । कृष्णाभ्रकप्रियसखीं द्युतिमुहन् वस्तीर्थङ्करः सकलमङ्गलकेलयेऽस्तु । जन्मान्धेनाऽमृतकर इव त्वं मया नाथ ! दृष्टो
दुःस्थेन स्वर्विटपिन इव प्रापि ते पादसेवा । तन्मे प्रीत्यै भव सुरभिवत् पञ्चमोदामगत्या
तन्वानस्य श्रुतिमधुमुचं कोकिलस्येव वाचम् ॥ ३२ ॥