________________
( १४२ ) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रपार्श्वप्रभोः परिलसत्पुरतस्तमांसि तद्धर्मचक्रमचिरान्मुकुलीकरोतु । प्राच्याचलेन्द्रशिखरस्य पुरस्सरं यद् बिम्बं विडम्बयति वारिजबान्धवस्य ।। सम्यक्त्वरत्नविभवं जिनपुङ्गवो वः कालोदसोदरवपुर्विपुलीकरोतु । . यस्मिन्नशोकदलपाटलपाणिजांशुजालं प्रवालवनविभ्रममाबिभर्ति ॥१४॥ कुर्यादुदञ्चदहिरत्नमहास्तडित्वदम्भोद....वथुमेष कथावशेषम् ।। यस्योन्नति वि न कस्य समस्तकामवल्लीः सपल्लवभराभरणाः करोति ॥ बिभ्रत् क्षमां स नरकक्षयबद्धकक्षः पायाद्दलल्कुवल्यधुतिभृजिनो यः । रत्नत्रयीतिलकितां स्वतनुं दधानः प्रादुश्चकार करणिं पुरुषोत्तमस्य ।। पुन्नागभङ्गिसुभगालिविनीलमूर्तिरुत्तुङ्गभूरिशिखरश्रियमादधानः । भूयादशोकतरुभूषितभूमिभागः श्रीमान् वसन्त इव सम्भृतसिद्विरागः।। व्याक्रोशमेचककुशेशयकाननश्रीर्वामाङ्गभूर्जिनपतिर्जगतीं पुनातु । उन्मीलदुत्पलदलयुतिमेति यस्मिन्नालायितस्ववपुषः फणिनः फणाली ॥१८ विश्वं पवित्रयतु पार्थजिनः स यस्य चन्द्रोत्पल: कतकचूर्ण इवोपदेशः। अन्हाय निर्मलयति स्म रजःप्रशान्ति सम्पाद्य कस्य हृदयं न जलाशयस्य।। देवः स दूरयतु वो दुरितोपतापं विन्ध्यावनिध्र इव सम्भृतभद्रयूथः । देवेव यद्वपुरुदश्चिमरीचिमालाव्यालोकनादपि जनं परितः पुनीतौ ( ते )। देवः सदा सिततनुः सुमनोजनानां पौरन्दरद्विरदवत् प्रमदं प्रदत्ताम् । स्वर्णाचले कलयति स्म कलां यदीयालानस्य मन्दिरमदः सहिरण्यकुम्भम्।। निस्सीमनिःसमतमप्रशमैकसौख्यसख्यं स जागरयतादिह वीतरागः । लाक्षेव यस्य हृदि तत्क्षणमिध्यमानध्यानानले विलयमाप विलासचापः ॥ रत्नैकदीपक इवाखिलविश्वकेलिवेश्मोदरे स्फुरति यः सततप्रकाशः । निःस्नेहतां दधददग्धदशोऽवलश्रीः सस्मेरमुक्तिरमणीरतये सतां स्तात् ॥