SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ (१४० ) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्र शक्तिर्यदि मानसं विजेतं किमखिलदःखग्रहस्थचिन्तनेन जनकजनककर्मणो वचोभिः किमिह परैर्विभवार्जनावबोधैः ॥१९॥ प्रवचनपरिधारिणोऽप्यमी ये विदधति कर्मसु तामसेषु वृत्तिम् । खलु तेषु बहिश्चरित्रमुख्यः सुगतिमपोहत एव ते निदेशः ॥ २० ॥ निवसति स जडेषु या न नाम श्रीलोलेषु दधाति नास्पदं च । शिवभूमीसखी विना न सा श्रीः पदयुगली तव लभ्यते महद्भिः।।२१॥ विसदृशमपि भावजातमेतद् युगपदशेषविशेषमीश ! बिभ्रत् । समवसृतिमही च शासनं च द्वयमपि सोदरतां ध्रुवं ददाति ॥ २२ ॥ मयि शोकधनी प्रवासनी च प्रभवपराभवभारविक्लवस्य । भवति खलु जनस्य सौममस्यं तव वचनामृतविग्रुषां निषेकः ॥२३॥ अवर्मनि वचःपतेरपि गिरामसौ मादृशां ___ मलीमसदृशां ध्रुवं त्वयि क एव देवस्तव । तथापि सफलो मम स्तवनसम्भवोऽयं श्रमः फलन्ति नहि देवताः किमुत भावनाः स्वाः सताम् ॥२४॥ [५५ ] उपमाभिः जिनस्तुतिद्वात्रिंशिका। आस्ते समस्तभुक्नेष्वपि नोपमा ते स्तुत्यै पुनर्जिनपते ! प्रयतस्तयास्मि । उद्दामदामरचना मम तरखपुष्पैः सैषा न साध्यमिह वा तव किं महिनः ॥१॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy