________________
(१३८)
जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रतदिदं तु निजस्य जन्मनः
सुखवन्ध्यत्वनिवेदना परम् ॥ २३ ॥ नितरामतराम चन्द्रकीर्ते !
भवजलधिं न विना तव प्रसादात् । प्रथय जिन ! ततस्तथा प्रसाद
सफलमनोरथवीथयो यथा स्मः ॥ २४ ॥
श्रीनेमिजिनस्तवः।
यदुकुलतिलकः समृद्धलक्ष्मीनरकनिरोधविधानबद्धकक्षः । जगतां धृतशङ्खचक्रपाणिर्दिशतु जिनः पुरुषोत्तमः शिवानि ॥१॥ स कविः खलु वास्तवं चरित्रं तव परिकीर्तयितुं कृताग्रहो यः । धिक् तांस्तु नरेन्द्रचन्द्रयोषिचरितमवास्तवमेव ये स्तुवन्ति ॥२॥ समयोऽथ न पारभेदसङ्गी मतिसौहत्यकृते महामतीनाम् । इतरेषु रहः पुनस्तवेदं निखिलप्राणिगणेन नित्यमैत्री ॥ ३ ॥ समता कुत एव ते सहान्यैरुत्कर्षेऽपि मनांस्यपत्रपन्ते । यमिनां मृतपाद् गुणाधिकत्वे महिमा कः कथिते प्रशंसितोऽस्तु ॥४॥ न तमांसि न वा रजांसि दृष्टिं पुरुषस्यप्रभवन्ति तस्य रोद्भुम् । अनिशं खलु शासनाञ्जनं ते सविधे यस्य विजम्भते जिनेश ! ॥५॥ परपरिभावदीनदीक्षितेषु क्षितिनाथेषु यथार्थिनो भवन्ति । भवति यदि तथा भवेयुरस्मिन् किमसुलभं भुवने तदास्तु वस्तु ॥६॥ न तपो न जपो न संवरो वा भवनाशाय विना त्वदुक्तमन्त्रात् । प्रगुणेष्वविशेषकारणेषु प्रसवति बीजमुपास्य नाम्बुसेकम् ॥७॥